________________
उत्तराध्ययन ॥५३८॥
१५
वित्र ९ तइअ १० सत्तराइदिणा । अहराइ ११ एगराई १२ भिक्खुपडिमाण वारसगं” अत्र प्रथमा एकमासिकी एकत्रिंशयावत्सप्तमी सप्तमासिकी, तदनु तिस्रः सप्तरात्रिक्यः १०, अहोरात्रिकी ११, एकरात्रिकी १२, च ॥१॥“पडिव
(३१) जइ एआओ, संघयणी धिइजुओ महासत्तो । पडिमाओ भाविअप्पा, सम्म गुरुणा अणुण्णाओ॥” संहननं वज्रऋषभनाराचादेरन्यतरत् , धृतिर्मनःखास्थ्यं तद्युक्तः, महासत्त्व उपसर्गादौ, भावितात्मा, प्रतिमायोग्यानुष्ठानेन गुरुणाऽनुज्ञातः, अथ चेद्गुरुरेव प्रतिपत्ता तदा स्थानाचार्येण गच्छेन वाऽनुज्ञायते ॥२॥ “गच्छेच्चिा निम्माओ, जा, पुवा दस भवे असंपुण्णा । नवमस्स तइअवत्थु, होइ जहन्नो सुआभिगमो” प्रतिपत्ता गच्छे एव तिष्ठन् निर्मातः आहारादिविषये प्रतिमायोग्यपरिकर्मणि निष्ठितः, सप्तसु यावत्परिमाणा तस्यास्तत्परिमाणमेव परिफर्म । तथा न वर्षाखेताः प्रतिपद्यते, न च परिकर्म करोति । आसु चादिमं द्वयं एकत्रैव वर्षे, द्वितीयमेकैकवर्षे, अन्यास्तिस्रः अन्यान्यवर्षे, अन्यत्र वर्षे परिकर्मान्यत्र च प्रतिपत्तिः, तदेवं नवभिर्वराद्याः सप्त समाप्यन्ते । अस्य च श्रुतं जघन्यतो नवमपूर्वतृतीयवस्तुयावत् , उत्कर्षतस्तु किञ्चिदूनानि दश पूर्वाणि । सम्पूर्णदशपूर्वधरो हि अमोघवचनत्वात् धर्मोपदेशेन भव्योपकारित्वेन तीर्थवृद्धिकारित्वात् प्रतिमा न प्रतिपद्यते । न च पूर्वगतश्रुतं विना एताः प्रतिपद्यते, हू निरतिशयित्वात्कालादि न जानातीति ॥ ३॥ “बोस? चत्तदेहो, उवसग्गसहो जहेव जिणकप्पी । एसणअभिग्गहीआ, भत्तं च अलेवडं तस्स" व्युत्सृष्टः परिकर्माभावेन सक्तश्च ममत्वाभावे देहो येन स तथा, यथैव जिनकल्पी
॥५३८॥