SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ १२ गुरोः पुरो वचसा प्रकाशनं, तन्मात्रेणैव यत्पातकं शुध्यति तदालोचनार्हम् ॥ १ ॥ प्रायश्चित्तं त्विहालोचनैव, एवमपि । प्रतिक्रमणं दोपान्निवृत्तिर्मिथ्यादुष्कृतदानमित्यर्थः, तन्मात्रेणैव यत्सहसात्कारजातं सावद्यवचनादिपापं शुध्यति न तु गुरुसमक्षमालोच्यते तत्प्रतिक्रमणार्हम् ॥ २ ॥ तथा यत्र गुरुसमक्षमालोच्य तदाज्ञया मिथ्यादुष्कृतं दत्ते तदालोचनाप्रतिक्रमणाईत्वान्मिश्रम् ॥ ३ ॥ तथा विवेकः पृथक्करणं, तन्मात्रेणैव यस्य शुद्धिस्तद्विवेकार्हम् । जायते हि कथञ्चिदशुद्धाहारादिग्रहणे तत्त्यागमात्रेणैव शुद्धिरिति ॥ ४ ॥ व्युत्सर्गः कायोत्सर्गस्तेनैव यस्य शुद्धिस्तत्तदर्हम् । ५ । तथा यत्र प्रतिसेविते निर्विकृतिकादि पण्मासान्तं तपो दीयते तत्तपोर्हम् ॥ ६ ॥ यत्र चासेविते पर्यायच्छेदः क्रियते तच्छेदार्हम् ॥ ७ ॥ यत्र चापतिते सर्व पर्यायमुच्छेद्य मूलतो प्रतारोपः स्यात्तन्मूलाम् ॥ ८ ॥ येन पुनः सेवितेन उपस्थापनाया अप्ययोग्यः सन् यावद्गुरूक्तं तपो न कुर्यात्तावद् त्रतेषु न स्थाप्यते, आचीर्णतपास्तु दोषोपरतो त्रतेषु स्थाप्यते तदनवस्थाप्यम् ॥ ९ ॥ यस्मिन् सेविते लिङ्ग क्षेत्र - काल-तपसा पारमञ्चति तत्पाराञ्चितं यद्वा पारमन्तं प्रायश्चित्तानां तत उत्कृष्टप्रायश्चिताभावात्, अपराधानां वा पारमञ्चतीति पाराश्चितम् ॥ १० ॥ इत्येतद्दशविधं यो भिक्षुर्वहत्यासेवते सम्यगवैपरीत्येन प्रायश्चित्तं तदाख्यातम् ॥ ३१ ॥ विनयमाह - मूलम् - अब्भुट्टाणं अंजलिकरणं तहेवासणदायणं । गुरुभत्तिभावसुस्सूसा विणओ एस विआहिओ ३२ व्याख्या—अभ्युत्थानमअलिकरणं तथेति समुच्चये, एवः पूत्त, 'आसणदायणंति' आसनदानं, गुरुभक्तिः, भावः त्रिंशत्तममध्ययनम्. गा ३२
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy