________________
६
९
१२
PAR
मूलम् — दवे खित्ते काले, भावंमि अ आहिआ उ जे भावा । एएहिं ओमचरओ, पज्जवचरओ भवे भिक्खू ॥ २४ ॥
व्याख्या - द्रव्येऽशनादौ, क्षेत्रे ग्रामादौ, काले पौरुष्यादी, भावे च स्त्रीत्वादौ आख्याताः कथिताः तुः पूत्तों ये भावाः पर्याया एकसिक्थोनत्वादयः एतैः सर्वैरपि अवममुपलक्षणत्वादवमौदर्य चरतीत्यवमचरकः पर्यवचरको भवेद्भिक्षुः । इह पर्यवग्रहणेन पर्यवप्राधान्यविवक्षया पर्यवावमौदर्यमुक्तं, एवं क्षेत्रावमौदर्यादीन्यपि क्षेत्रादिप्राधान्यविवक्षया ज्ञेयानि, तत्त्वतो हि तेष्वपि द्रव्यावमौदर्यस्य सम्भवात् । यत्रापि च द्रव्यतो न्यूनत्वमुदरस्य नास्ति तत्रापि क्षेत्रादिन्यूनतामपेक्ष्यावमौदर्याणि भण्यन्त इति सूत्रैकादशकार्थः ॥ २४ ॥ भिक्षाचर्यामाह
| मूलम् - अट्ठविहगोअरग्गं तु, तहा सत्तेव एसणा । अभिग्गहा य जे अन्ने, भिक्खायरिअमाहिआ ॥ २५ ॥ व्याख्या- 'अट्ठविहगोअरग्गंति' प्राकृतत्वादष्टविधः अग्रः प्रधानोऽकल्पपरिहारेण स चासौ गोचरश्च उच्चावचकुलेष्वविशेषेण भ्रमणमष्टविधाप्रगोचरः, तुः पूत । तथा सप्तैव एषणा अभिग्रहाश्च येऽन्ये तदतिरिक्तास्ते किमित्याह- 'भिक्खायरिअमाहिअत्ति' भिक्षाचर्या वृत्तिसंक्षेपापरनामिका आख्याता कथिता । अत्राष्टौ अग्रगोचरभेदाः पेटादय एव तेषु शम्बूकावर्त्ताया द्वैविध्यस्य पार्थक्याश्रयणात्, आयतायाश्च गमनेऽपि वलमानत्वे इव पृथग्ग्रहणात् तेषामष्टविधत्वं ज्ञेयं । सप्तैषणाश्चेमा ः- “संसद्रुमसंसट्टा २, उद्धड ३ तह अप्पलेविआ चेव ४ । उग्गहिआ ५ पग्ग
त्रिंशत्तममध्ययनम्.
गा २४-२५