________________
उत्तराध्ययन ॥५३२॥
त्रिंशत्तममध्ययनम्. (३०) गा २६
१८
।
हिआ ६, उज्झिअधम्मा य ७ सत्तमिआ ॥१॥" संसृष्टाभ्यां हस्तपात्राभ्यां भिक्षां गृह्णतः प्रथमा ॥१॥ असंसृष्टाभ्यां तु ताभ्यां गृहतो द्वितीया ॥२॥ पाकस्थानात् यत् स्थाल्यादौ स्वार्थ भोजनायोद्धृतं ततो गृह्णतः
" उद्धृताख्या तृतीया ॥३॥ निर्लेपं पृथुकादिगृहृतोऽल्पलेपा चतुर्थी ४ । उद्गृहीता नाम भोजनकाले भोक्तुकामस्य परिवेषयितुं दर्वीशरावादिना यदुपहृतं भोजनजातं तत एवाददानस्य पञ्चमी ॥ ५॥ प्रगृहीता नाम भोजनकाले |भोक्तुकामाय दातुमुद्यतेन भोक्रा वा यत्करादिना गृहीतं तत एव गृह्णतः षष्ठी ॥६॥ उज्झितधर्मा तु यत्परिहाराह भोजनजातं यदन्ये द्विपदादयो नावकांक्षन्ति तदर्द्धत्यक्तं वा गृह्णतः सप्तमी ॥७॥ अभिग्रहाश्च द्रव्य १ क्षेत्र २ काल ३ भाव ४ विषयाः। तत्र द्रव्याभिग्रहाः कुन्ताग्रादिसंस्थितं मण्डकादि ग्रहीष्यामीत्यादयः॥१॥ क्षेत्राभिग्रहा देहली जम्योर्मध्ये कृत्वा यदि दास्यति तदा ग्राह्यमित्याद्याः ॥२॥ कालाभिग्रहाः सकलभिक्षुकोपरमकाले मया भ्रमितव्यमितिमुख्याः ॥३॥ भावाभिग्रहास्तु हसन्नाक्रन्दन् बद्धो वा यदि दाता दास्यति ततोऽहमादास्ये न त्वन्यथेत्येवमादयः ॥ ४ ॥ इति सूत्रार्थः ॥ २५ ॥ रसत्यागमाहमूलम्-खीरदहिसप्पिमाई, पणीअं पाणभोअणं । परिवजणं रसाणं तु, भणि रसविवज्जणं ॥२६॥
CARKAKAKAR
॥५३२॥
१ संसृष्टाभ्यां तत्खरण्टिताभ्यां हस्तपात्राभ्यामिति "ध" पुस्तके ॥