________________
त्रिंशत्तममध्ययनम्.
१५
गा २१-२३
उत्तराध्ययन मूलम्-अहवा तइआए पोरिसीए ऊणाए घासमेसंतो। चउभागूणाए वा, एवं कालेण ऊ भवे ॥२१॥ ॥५३॥
व्याख्या-अथवा तृतीयपौरुष्यामूनायां ग्रासमाहारं 'एसन्तोत्ति' एषयतः, कियता भागेन न्यूनायामित्याह-चतुर्भागोनायां, 'वा' शब्दात् पञ्चादिभागोनायां वा, एवममुना कालविषयाभिग्रहलक्षणेन प्रकारेण चरत इत्यनुवर्तते, कालेन तु भवेदवमौदर्यम् । औत्सर्गिकविधिविषयं चैतत् , उत्सर्गतो हि तृतीयपौरुष्यामेव भिक्षाटनमुक्तम् ॥२१॥ भावावमौदर्यमाह
मूलम्-इत्थी वा पुरिसो वा, अलंकिओ वाऽणलंकिओ वावि।।
. अन्नयरवयत्थो वा, अन्नयरेणं वा वत्थेणं ॥ २२ ॥ ४मूलम्-अन्नण विसेसेणं, वण्णेणं भावमणुमुअंते उ । एवं चरमाणो खल, भावोमाणं मुणेअवं २३॥
__व्याख्या-स्त्री वा पुरुषो वा, अलङ्कृतो वा अनलतो वा, अपिः पृत्तौं, अन्यतरस्मिन् वयसि तारुण्यादौ तिष्ठतीत्यन्यतरवयःस्थो वा, अन्यतरेण पट्टसूत्रमयादिना वस्त्रेणोपलक्षितः ॥ २२॥ 'अन्नेणेत्यादि'-अन्येन विशेषेण कुपितहसितादिनाऽवस्थाभेदेन, वर्णेन कृष्णादिनोपलक्षितो भावमुक्तरूपमेवालङ्कृतत्वादिकं 'अणुमुअंते उत्ति' अमु|श्चन्नेव यदि दाता दास्यति तदाहं ग्रहीष्ये नान्यथेत्युपस्कारः एवं 'चरमाणोत्ति' चरतः खलु 'भावोमाणंति' भावावमौदर्य मुणितव्यम् ॥ २३ ॥ पर्यवावमौदर्यमाह
55555ROMALS
॥५३१॥
.