________________
मध्ययनम्. गा २०
शम्बूकः शङ्खस्तद्वदावर्तो यस्यां सा शम्बूकावर्त्ता, सा द्विविधा, अभ्यन्तरशम्बूकावर्त्ता बहिश्शम्बूकावा च, तत्राद्या शङ्खनाभिसदृशाकारे क्षेत्रे मध्यादारभ्य बाह्यगृहं यावदटने, अन्या तु तद्विपर्यये ॥५॥ 'आययगंतुंपचागयत्ति' आयतं दीर्घ प्राञ्जलमित्यर्थः, गत्वा प्रत्यागता पष्ठी, इयं ऋजुतयाऽग्रतो गत्वा वलमानस्याटने ॥६॥ नन्वत्र गोचररूपत्वात् भिक्षाचर्यात्वमेवासा तत्कथमिह क्षेत्रावमौदर्यरूपत्वमुच्यते ? उच्यते-अवमौदर्य ममास्त्वित्याशयेन क्रियमाणत्वादवमौदर्यव्यपदेशोऽप्यत्रादुष्ट एव, दृश्यन्ते हि निमित्तभेदादेकत्रापि देवदत्तादौ पितृपुत्रादयोऽनेके व्यपदेशाः । एवं पूर्वत्र ग्रामादिविषयस्योत्तरत्र कालादिविषयस्य च नैयत्यस्याभिग्रहत्वेन भिक्षाचर्यात्वप्रसङ्गे इदमेवोत्तरं वाच्यम् ॥ १९॥ कालावमौदर्यमाह
मूलम्-दिवसस्स पोरिसीणं, चउण्डंपि उ जत्तिओ भवे कालो।
एवं चरमाणो खलु, कालोमाणं मुणेअवं ॥ २० ॥ व्याख्या-दिवसस्य पौरुषीणां चतसृणामपि तुः पूर्ती यावान् भवेत्कालोऽभिग्रहविषय इति शेषः, एवमिति एवंप्रकारेण प्रक्रमात्कालेन 'चरमाणोत्ति' सुव्यत्ययाचरतो भिक्षार्थ भ्रमतः चतसृणां पौरुषीणां मध्येऽमुकस्मिन् काले भिक्षाचीं करिष्यामीत्येवमभिगृह्य पर्यटतः खलु निश्चितं 'कालोमाणंति' कालेन हेतुनाऽवमत्वं प्रस्तावादुदरस्य कालावमत्वं, कोऽर्थः ? कालावमौदर्य मुणितव्यं ज्ञातव्यम् ॥ २० ॥ एतदेवप्रकारान्तरेणाह
भवेत्कालो
पर्यटतः सावरतो भि