________________
उत्तराध्ययन ॥५२९॥
१५
१८
२१
२४
व्याख्या - अवमं न्यूनमुदरं यस्यासाववमोदरस्तस्य भावोऽवमौदर्य न्यूनोदरता पञ्चधा समासेन व्याख्यातं, द्रव्यतो द्रव्याद्धेतौ पञ्चमी, क्षेत्रं च कालश्च क्षेत्रकालं तेन, भावेन पर्यायैश्चोपाधिभूतैः ॥ १४ ॥ तत्र द्रव्यत आह
मूलम् - जो जस्स उ आहारो, तत्तो ओमं तु जो करे । जहणेणेगसित्थाइ, एवं दद्वेण ऊ भवे ॥ १५ ॥
व्याख्या - यो यस्य तुः पूत आहारो द्वात्रिंशत्कवलादिमानः, ततः खाहारादवममूनं तुः पूत्तौ यः कुर्यात् भुआनः इति शेषः, अयं भावः - पुरुषस्य हि द्वात्रिंशत्कवलमान आहारः, स्त्रियाश्चाष्टाविंशतिकवलमानः । कवलचेह यस्मिन् क्षिप्ते मुखस्य नातिविकृतत्वं स्यात्तावन्मानो ज्ञेयः । ततश्चैतन्मानादूनं यो भुङ्क्ते यत्तदोर्नित्याभिसम्बन्धात तस्य एवममुना प्रकारेण द्रव्येणोपाधिभूतेन भवेदिति सण्टङ्कः, अवमौदर्यमिति प्रक्रमः, एतच जघन्येनैकसिक्थं यत्रैकमेव सिक्थं भुज्यते तदादि, आदिशब्दात्सिक्थद्वयादारभ्य यावदेककवलभोजनम् । इत्थं चाल्पाहाराह्नमवमौदर्यमाश्रित्योच्यते, यत उपार्द्धादिषु तद्भेदेषु कवलनवकादिमानमेव जघन्यं स्यात्तथा च सम्प्रदायः- “ अप्पाहारोमोअरिआ जहण्णेणेगकवला, उक्कोसेणं अट्ठ कवला, सेसा अजहन्नमणुकोसा । उवहाहारोमोअरिआ जहन्नेणं नव कवला, उक्कोसेणं वारस कवला, सेसा अजहन्नमणुकोसा" इत्यादि - एतद्भेदाश्चामी " अप्पाहार १ उवड्डा २, दुभाग
त्रिंशत्तममध्ययनम्. (३०)
गा १५
॥५२९॥