________________
त्रिंशत्तममध्ययनम्. गा१६-१७
३
३ पत्ता ४ तहेव किंचूणा ५॥ अट्ट १ दुवालस २ सोलस ३, चउवीस ४ तहेक्कतीसा ५ य ॥१॥” अत्राष्टादिभिः संख्याशब्दरल्पाहारादीनामूनोदरताभेदानां उत्कर्षतः कवलमानमुक्तम् ॥ १५॥ क्षेत्रावमौदर्यमाह__ मूलम्--गामे नगरे तह रायहाणि निगमे अ आगरे पल्ली।
खेडे कब्बड-दोणमुह-पट्टण-मडंब-संवाहे ॥ १६ ॥ व्याख्या--ग्रामे नगरे च प्रतीते, राजधानी च राजावस्थानस्थानं निगमश्च प्रभूततरवणिजां निवासोऽनयोः समाहारः | राजधानीनिगमं तस्मिन् , आकरे वर्णाधुत्पत्तिस्थाने, पल्यां वृक्षगहनाद्याश्रितप्रान्तजननिवासरूपायां, खेटे पांशुवप्रपरिक्षिप्ते, कर्बट कुनगरं, द्रोणमुखं जलस्थलपथनिर्गमप्रवेशं यथा भृगुकच्छं, पत्तनं द्विधा जलपत्तनं स्थलपत्तनं च, तत्राद्यं जलमध्यवर्ति इतरनिर्जलभूभागभावि, मडम्वं सर्वदिक्षु अर्द्धतृतीययोजनान्तामान्तररहितं, सम्बाधः प्रभूतचातुर्वण्यनिवासः, कर्वटादीनां समाहारद्वन्द्वस्तस्मिन् ॥ १६ ॥ मूलम्-आसमपए विहारे, सन्निवेसे समाय-घोसे अ। थलि-सेणा-खंधारे, सत्थे संवट्ट-कोहे अ | व्याख्या-आश्रमपदे तापसावसथोपलक्षितस्थाने, विहारो देवगृहं भिक्षुनिवासो वा तत्प्रधानो ग्रामादिरपि विहारस्तस्मिन् , संनिवेशे यात्रादिसमायातजनावासे, समाजः पथिकसमूहो घोषो गोकुलमनयोः समाहारस्तस्मिन् ,