SearchBrowseAboutContactDonate
Page Preview
Page 40
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥३३८॥ अष्टादशमध्ययनम् १५ 6-1055 सगरचक्रि कथा ३४-४८ SARASWASHRASE इत्ययोध्यामुपागत्य, सामन्ताद्या व्यचिन्तयन् ॥ ३४ ॥ दग्धाः खामिसुताः सर्वे-ऽप्यागता वयमक्षताः॥ लज्जाकर-1 मिदं राज्ञो-ऽग्रे कथं कथयिष्यते ? ॥ ३५ ॥ प्रविशामस्ततो वह्नि-मनन्यगतिका वयम् ॥ तानिति ध्यायतोऽभ्येत्य, विप्रः कोपीत्यभाषत ॥ ३६॥ कर्मणा शुभमन्यद्वा, नाङ्गिनां किं भवे भवेत् ? ॥ तद्याकुला भवत मा, वक्ष्याम्येतदहं प्रभोः ॥ ३७ ॥ इत्युदित्वा द्विजः कञ्चि-दनाथं शवमुद्वहन् ॥ गत्वा राजकुलद्वारे, व्यलापीदुच्चकैर्मुहुः ॥३८॥ तत् श्रुत्वा चक्रिणाऽऽहूय, पृष्टः किं रोदिपीति सः? ॥ प्रोचे ममैक एवासी, सूनुर्दष्टो महाहिना ॥ ३९ ॥ प्राप्तो निश्चेष्टतां देव !, तदेनं जीवयाऽधुना ॥ जाङ्गुलीकमथादिक्ष-त्तत्र कर्मणि भूधवः ॥४०॥ ज्ञातभूपापत्यमृत्यु-रित्यूचे सोऽपि कोऽपि हि ॥ मृतो न स्याद्यत्र तस्मा-द्भस्माऽऽनयत मन्दिरात् ॥४१॥ यथाऽहं जीवयाम्येन-मिति तेनोदितो नृपः ॥ तद्भस्मामार्गयद्धृत्यैः, पुर्या सर्वेषु वेश्मसु ॥४२॥ तेऽप्यागत्यावदन्नाथ !, सकला वीक्षिता पुरी॥ परं पुरा यत्र मृतो, न कश्चिन्नास्ति तद्गृहम् ॥ ४३ ॥ राजाऽप्यूचेऽस्माकमपि, भूयांसः पूर्वजाः मृताः ॥ सर्वसाधारणे मृत्यौ, तत्किं कोविद ! खिद्यसे? ॥४४॥ किं शोचसि ? मृतं पुत्रं, किञ्चिदात्महितं कुरु ॥ सिंहेनेव मृगो यावन्मृत्युना त्वं न गृह्यसे ! ॥४५॥ भूदेवोऽथावदद्देव, जानाम्येतदहं परम् ॥ अद्यैव जायते पुत्र-मन्तरा मे कुलक्षयः ॥ ४६ ॥ तद्बलाक्रान्तविक्रान्त-दीनानाथैकनाथ ! हे ॥ कथञ्चिजीवयित्वाऽमुं, पुत्रभिक्षा प्रदेहि मे ॥४७॥ भूयोऽभ्यधान्मंत्रतंत्र-शस्त्रादीनामगोचरे ॥ अदृष्टविद्विषि विधौ, कः पराक्रमते ? कृतिन् ! ॥४८॥ तन्मुश्च शोकं| ASECCASSA ॥३३८॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy