SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ ध्ययनम् सगरचक्रिकथा १९-३३ करं जगुः ॥ १९॥ सोऽपि ज्ञात्वाऽवधेः क्रुद्धो-ऽभेत्योचे सगराङ्गजान् ॥ भुवं भवद्भिर्मिन्दानै-र्भोः! किमेतत्कृतं जडैः? ॥ २०॥ उपद्रुता हि युष्माभि- गास्तद्गृहभेदनैः ॥ ते च क्रुद्धा हनिष्यन्ति, युष्मान् सिंहा इव द्विपान् ॥ २१॥ तन्नूनं खवधायैव, प्रयत्नो भवतामयम् ॥ पतङ्गानां दीपपात-कृते पक्षबलं यथा ॥ २२ ॥ जबुर्जगौ तीर्थरक्षा-कृतेऽस्माभिरदः कृतम् ॥ तन्मन्तुमेनं भोगीन्द्र !, क्षमखाज्ञानसम्भवम् ॥ २३॥ आगः सोढमिदं नैवं, पुनः कार्यमिति ब्रुवन् ॥ अहीन्द्रोऽगात्ततो जहु-रिति दध्यौ सहानुजैः॥ २४॥ परिखाऽसौ विना वारि, पांशुभिः पूरयिष्यते ॥ तदेनां पूरयामोऽथ, पुण्यैर्मन्दाकिनीजलैः ॥ २५॥ तत्रार्थे सोदराः सर्वे, ज्यायांसमनुमेनिरे ॥ यादृशं भवितव्यं स्या-त्सहायाः खलु तादृशाः ! ॥ २६ ॥ ततः स दण्डेनाऽऽकृष्य, तत्र चिक्षेप जाह्नवीम् ॥ उपाद्रूयन्त भूयोऽपि, भोगिगेहास्तदम्भसा ॥२७॥ नागलोकं पुनर्वीक्ष्य, क्षुभितं ज्वलनप्रभः॥ कोपावेशाभूवाशु, प्रज्वलज्ज्वलनप्रभः ॥ २८ ॥ सोऽथ दृष्टिविषान् प्रैषी-तद्वधाय महोरगान् ॥ तैश्च निर्गत्य ते दृष्टा, दृष्टिभिर्विषवृष्टिभिः ॥२९॥ ततस्ते भस्मतां भेजुः, सर्वेऽपि सगरात्मजाः ॥ तं चोत्पातं प्रेक्ष्य चक्रि-चक्रं चक्रन्द तभृशम् ॥ ३०॥ ततः सैन्यानिति प्रोचे, सचिवः शोचितैरलम् ॥ नावश्यम्भाविनं भाव-मतिकामति कोऽपि हि !॥३१॥ तीर्थसेवातीर्थरक्षाकरणोपक्रियादिभिः ॥ कृतपुण्यार्जनाः शोच्या, न चामी खामीसूनवः ॥ ३२ ॥ तद्विमुच्य शुचं सर्वैः, क्षिप्रं प्रस्थि| यतामितः ॥ स्थाने सोपद्रवे स्थातुं, धीधनानां हि नोचितम् ॥३३॥ इति मंत्रिगिरा त्यक्ता-क्रन्दास्ते चलितास्ततः॥ BHARAHAR ASHTRA
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy