SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥३३७॥ अष्टादशम|ध्ययनम् (१८) सगरचक्रिकथा ४-१८ TERROGACHACASA तखामी, युवराट् सगरः पुनः॥४॥ न्यथान्यदाऽनुजं राज्ये, प्राजाजीदजितप्रभुः ॥ ततो बभूव सगर-श्चक्रवर्ती महाभुजः॥५॥ क्रमात्षष्टिसहस्राणि, तनयास्तस्य जज्ञिरे ॥ तेषु ज्येष्ठोऽभवजहुः, सोऽन्यदाऽप्रीणयन्नुपम् ॥६॥ ततः पित्रा वरे दत्ते, सोऽवादीत्त्वत्प्रसादतः ॥ दिक्षेऽहं महीं भ्रातृ-युक्तो दण्डादिरत्नवान् ॥७॥राजाऽनुज्ञातोऽथ जडः, ससैन्यः प्रस्थितस्ततः॥ विहिताश्चर्यसन्दी, रत्नगी विलोकयन् ॥८॥ चतुर्योजनविस्तारं, योजनाष्टकमुन्नतम् ॥ प्राप्तोऽष्टापदमारोह-त्सह सर्वैः सहोदरैः ॥९॥[युग्मम् ] क्रोशद्वयपृथु कोश-त्रयोचं योजनायतम् ॥ चतुमुखं रत्नमयं, तत्र चैत्यं ददर्श सः॥१०॥ ऋषभाद्यर्हतामर्चाः, खखमानादिशोभिताः॥ स्तूपांश्च भरतादीनां, शतं तत्र ननाम सः ॥ ११ ॥ सुषमां तस्य शैलस्य, चैत्यस्य च विलोकयन् ॥ पीतामृत इवात्यर्थं, जहर्ष सगराङ्गजः ॥ १२॥ केनेदं कारितं चैत्य-मित्यमात्यं च पृष्टवान् ?॥ सोप्यूचे भरताख्येन, चक्रिणा पूर्वजेन वः ॥१३॥ अथाख्यत्सेवकान् जङ-रीदृशं भरतेऽपरम् ॥ पश्यताद्रिं यथाऽस्माभिः, कार्यते चैत्यमीदृशम् ॥ १४ ॥ तेऽपि गत्वाऽऽगताः प्रोचु-नोस्त्यऽन्योत्राऽदिरीदृशः ॥ ततो जगाद जहुस्त-द्रक्षामस्यैव कुर्महे ॥ १५॥ कालानुभावतो लुब्धा, भाविना भाविनो जनाः॥ उपद्रोष्यन्ति तेह्यत्र, तद्रक्षास्य महाफला !॥१६॥ इत्युक्त्वा दण्डरत्नेन, जदुस्तं परितो गिरिम् ॥ सहस्रयोजनोद्वेधां, विदधे परिखां क्षणात् ॥ १७॥ तदा च दण्डरत्नेन, तेन दारयता महीम् ॥ क्रीडागेहानि नागानां, मृत्पात्राणीव पुस्फुटुः ॥१८॥ तं प्रेक्ष्योपद्रवं क्षुब्धा, भुजङ्गा ज्वलनप्रभम् ॥ उपेत्य खप्रभु साँध-भगव्यति. CACARENCEKACTOR ॥३३७॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy