________________
अष्टाशम|ध्ययनम् भरतचक्रिकथा
२१-२७
ANNARR
| कृत्वा, भावचारित्रमाश्रितः ॥ अज्ञानतिमिरादित्यं, केवलज्ञानमाप सः ॥ २१॥ [युग्मम् ] कृत्वालोचं शक्रदत्त, | मुनिवेशं दधत्ततः॥ निर्जगाम गृहाचक्रि-साधुर्भानुरिवाम्बुदात् ॥ २२ ॥ तमुपात्तव्रतं वीक्ष्य, क्षामसंसारवासनाः ॥ भूपा दश सहस्राणि, दीक्षामाददिरे मुदा !॥ २३॥ ततः शक्रादयो देवा-स्तं नत्वा खाश्रयं ययुः ॥ भुवि व्यहा
द्भगवा-नपि भव्यान् प्रबोधयन् ॥ २४ ॥ सप्तसप्ततिलक्षाणि, पूर्वाणां भरतप्रभोः ॥ कौमारे मण्डलित्वे तु, सहस्रं शरदामभूत् ॥ २५॥ चक्रित्वेऽष्टसहस्रोनाः, पूर्वलक्षा रसोन्मिताः ॥ पूर्वाणां लक्षमेकं तु, केवलीत्वे व्रतेऽपि च ॥ २६ ॥ सर्वायुषा चतुरशीतिमितानि पूर्व-लक्षाणि सम्यगतिगम्य महेन्द्रनम्यः ॥ कर्मक्षयेण भरतेश्वरसाधुराजो, भेजे महोदयरमामुदितोदितश्रीः ॥ २७ ॥ इतिभरतचक्रिकथालेशः ॥ ३४ ॥ मूलम्-सगरोवि सागरंतं, भरहवासं नराहिवो। इस्सरिअं केवलं हिच्चा, दयाए परिनिवुए ॥३५॥ ___ व्याख्या-सगरो पि द्वितीयचक्री सागरान्तं पूर्वादिदिक्त्रये समुद्रपर्यन्तं, उत्तरस्यां तु हिमवदन्तं भरतवर्ष नराधिपः, ऐश्वर्यश्च केवलं परिपूर्ण हित्वा दयया संयमेन परिनितो मुक्तः । तदृत्तलेशो यथा, तथाहि| अयोध्यायां पुरि मापो, जितशत्रुरभूजयी ॥ युवराजोऽनुजस्तस्य, सुमित्रविजयाह्वयः ॥१॥ तयोर्महिष्यौ विज
या- यशोमत्यौ बभूवतुः ॥ शक्रेशानाभ्यां खकल्प-सारे देव्याविवार्पिते ! ॥२॥ तयोश्चतुर्दशखप्न-सूचितौ सद्गुणा[श्चितौ ॥ सुतावभूतामजित-सगरौ जिनचक्रिणौ ॥३॥ जितशत्रुसुमित्राभ्या-मेकदा खीकृते व्रते ॥ नृपोऽभूदजि
गाथा ३५
..
सगरचक्रिकथा १-३