SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन CRISTIANSANROSESANAN ANAXA षोडशभिः, सहस्रैः सेवितोऽनिशम् ॥ पट्खण्डं भरतक्षेत्र-मखण्डाज्ञः प्रपालयन् ॥ ७॥ चतुषष्टिसहस्रान्तः-पुरस्त्रीभिः अष्टादशमसहान्वहम् ॥ क्रीडन् पूर्वोक्तपुण्यद्-पुष्पाभं सौख्यमाश्रयन् ॥ ८॥ ऋषभखामिनिर्वाणा-स्पदेऽष्टापदपर्वत्ते ॥ चैत्ये ध्ययनम् खकारिते भक्त्या, जिनबिम्बानि पूजयन् ॥९॥ साधर्मिकाणां वात्सल्यं, कुर्वन्नाश्रितवत्सलः ॥ पूर्वलक्षाणि षट् (१८) क्षोणी-हर्यश्वः सोऽत्यवाहयत् ॥ १०॥ [अष्टभिः कुलकम् ] अन्यदा प्रातरभ्यक्तो-द्वर्तितस्रपिताङ्गकः ॥ आदर्श भरतचक्रि कथा७-२० सदनं सोऽगा-त्सर्वालङ्कारभूषितः॥११॥ तत्राऽऽत्मदर्श महति, पश्यंश्चक्री निजं वपुः ॥ भ्रष्टाङ्गुलीयकामेकां, ददर्श खक-18 राङ्गुलीम् ॥ १२ ॥ अशोभमानां तां प्रेक्ष्य, प्रेक्षावान् माधवाग्रणीः ॥ सकलानप्यलङ्कारा-नेकैकमुदतारयत् ॥१३॥ |तत उज्झितपाथोज, पद्माकरमिवाऽऽत्मनः॥ विलोक्य वपुरश्रीक-मिति दध्याँ धराधवः ॥ १४ ॥ अहो ! आगन्तुकैरेव-द्रव्यैरङ्गं विराजते ॥ स्वाभाविकं तु सौन्दर्य, किमप्यस्य न दृश्यते !॥१५॥ खरूपासारतां वक्ति, यस्य संस्कारसारता ॥ मोहादेव तदप्यमं, जना जानन्ति मञ्जुलम् ! ॥ १६ ॥ मनोज्ञमप्यन्नपान-पुष्पगन्धांशुकादिकम् ॥ विनश्यत्यस्य सङ्गेन, ब्रह्मचर्यमिव स्त्रियाः !॥ १७॥ तदहो निर्विवेकत्वं, विदुषामपि बालवत् ॥ ये देहस्सेदशस्यापि, कृते पापानि कुर्वते ! ॥ १८ ॥ तन्मोक्षदायि मानुष्यं, शरीरार्थेन पाप्मना । द्यूतेनेव घुसद्रलं, युक्तं नाशयितुं न मे ॥१९॥ ध्यायन्नित्यादि सम्प्राप्तः, संवेगमधिकाधिकम् ॥ आरूढः क्षपक श्रेणी, निश्रेणी शिवसद्मनः ॥ २०॥ घनघातिक्षय १ क्षोणीहर्यश्वः भूमीन्द्रः॥ ॥३३६॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy