SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ ६ १२ |त्मिका, तथा सम्पन्नो दृष्टिसम्पन्नः, एवं च सम्यक्दर्शनज्ञानान्वितः सन् धर्म चर सेवख, सुदुश्वरं अत्यन्त कष्टानुष्ठेय| मिति सूत्रार्थः ॥ ३३ ॥ पुनः क्षत्रियमुनिरेव संजयमुनिं महापुरुषदृष्टान्तैः स्थिरीकर्तुमाह मूलम् -- एअं पुण्णपयं सोच्चा, अत्थधम्मोवसोहिअं । भरहोवि भारहंवासं, चिच्चा कामाई पवए ॥ ३४ ॥ व्याख्या - एतत् पूर्वोक्तं पुण्यहेतुत्वात् पुण्यं, पद्यते गम्यतेऽर्थोऽनेनेति पदं पुण्यं च तत् पदं च पुण्यपदं, क्रियावादादिलक्षणनानारुचिवर्जनादिज्ञापकं शब्दसंदर्भ श्रुत्वा अर्थोऽर्थ्यमानतया खर्गापवर्गादिः, धर्मस्तदुपायभूतः श्रुतधर्मादिस्ताभ्यामुपशोभितं अर्थधर्मोपशोभितं, भरतः प्रथमचक्री, अपिशब्द उत्तरापेक्षया समुचये, भारतं वर्ष क्षेत्रं त्यक्त्वा 'कामाईति' चस्य गम्यत्वात् कामांश्च 'पवएत्ति' प्रात्राजीत्, तत्कथांशस्त्वेवम् । तथाहि अत्रैव भरते शक्रा - ज्ञया श्रीदेन निर्मिता । अस्त्ययोध्या पुरी स्वर्ग - प्रतिस्पर्द्धिसमृद्धिका ॥ १ ॥ प्रथमः प्रथितः पृथ्यां, पुत्रः श्रीवृषभप्रभोः । सार्वभौमोऽभवत्तत्र भरतो भरतेश्वरः ॥ २ ॥ चतुर्दशानां रत्नानां, विभुर्नव निधिप्रभुः । द्वात्रिंशता सहस्रैर्भू-भुजां सेवितपत्कजः ॥ ३ ॥ लक्षैश्चतुरशीत्याऽश्व - रथेभानां समाश्रितः ॥ ग्रामाणां च पदा - तीनां, कोटिपण्णवतेः पतिः ॥ ४ ॥ लोकैर्द्वात्रिंशत्सहस्र - देशानां धृतशासनः ॥ सत्पत्तनसहस्राणां द्विश्चतुर्विंशतेविभुः ॥ ५ ॥ द्वासप्ततेः श्रेष्ठपुर - सहस्राणामधीश्वरः ॥ सहस्रोनं द्रोणमुख-लक्षं च परिरक्षयन् ॥ ६ ॥ गुह्यकानां १ 'अत्यन्त कष्टानुष्ठेयमितिपाठः 'घ' पुस्तके नास्ति । अष्टादशम ध्ययनम् गा -३४ भरतचक्रिकथा १-६
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy