________________
उत्तराध्ययन ॥३३५॥
अष्टादशमध्ययनम्
(१८) गा ३२-३३
तेषां मंत्रास्तत्कार्यालोचनरूपास्तेभ्यो, वा समुच्चये, पुनर्विशेषणे, अतिसावद्यत्वं तेषां विशिनष्टि, सोपस्कारत्वात्सूत्रस्य यश्चैवं संयम प्रति उत्थानवान् स 'अहो' ! इति विस्मये, उत्थितो धर्मम्प्रत्युद्यतः, कश्चिदेव हि महात्मा एवंविधः । स्यादित्याश्चर्य, अहोरात्रं अहर्निशं, इति एतदनन्तरोक्तं 'विजत्ति' विद्वान् जानन् 'तवंति' गम्यत्वादवधारणस्य तप एव, न तु प्रश्नादि, चरेरासेवेथा इति सूत्रार्थः ॥ ३१ ॥ अथ संजययतिना कथमायुर्वेत्सीति पृष्टोऽसावाहमूलम्-जं च मे पुच्छसी काले, सम्म सुद्धेण चेअसा। ताई पाउकरे बुद्धे, तं नाणं जिणसासणे॥३२॥ । व्याख्या-यच मे इति मां पृच्छसि काले कालविषयं सम्यक् शुद्धेन चेतसोपलक्षितः 'ताइंति' सूत्रत्वात् तत् प्रादुष्कृतवान् प्रकटितवान् बुद्धः सर्वज्ञोऽत एव तज्ज्ञानं जिनशासने सावधारणत्वाद्वाक्यस्य जिनशासने एव, न त्वन्यत्र सुगतादिशासनेऽतो जिनशासने एव यत्नः कार्यो येन यथाऽहं जानामि तथा त्वमपि ज्ञास्यसि इति भावः, इति सूत्रार्थः ॥ ३२ ॥ पुनरुपदेष्टमाह
मूलम्--किरिअं रोअए धीरो, अकिरिअं परिवजए। दिहिए दिहिसंपन्ने, धम्म चर सुदुच्चरं ॥ ३३ ॥ 8 व्याख्या--क्रियाश्चास्ति जीव इत्यादिरूपां सदनुष्ठानात्मिकां वा रोचयेद्धीरोऽक्षोभ्यः, तथाऽक्रियां नास्त्यात्मा
इत्यादिकां परिवर्जयेत् , ततश्च दृष्ट्या सम्यग्दर्शनरूपया उपलक्षिता या दृष्टिबुद्धिः, सा चेह प्रक्रमात् सम्यक्ज्ञाना
॥३३५॥