________________
CAAAAAACARAM
पल्यविषया यस्यां सा वर्षशतोपमा, तत्र मे महापालीदशकरूपा दिव्या भवस्थितिरासीदित्युपस्कारः, ततश्चाहं
अष्टादशमवर्षशतोपमायुरभूवमिति भावः ॥ २८॥
ध्ययनम् मूलम् से चुए बंभलोआओ, माणुस्सं भवमागओ। अप्पणो अपरेसिं च, आउं जाणे जहा तहा॥२९॥ लगा २९-३१
व्याख्या-से इति अथ स्थितिपालनानन्तरं च्युतो ब्रह्मलोकात् मानुष्यं भवमागत इत्थमात्मनो जातिस्मरणात्मकमतिशयमुक्त्वाऽतिशयान्तरमाह-आत्मनश्च परेषाश्च आयुर्जानामि, यथा येन प्रकारेण स्यात्तथा तेनैव प्रकारेण न त्वन्यथेति भाव इति सूत्रद्वयार्थः ॥ २९ ॥ इत्थं प्रसङ्गादपृष्टमपि खवृत्तान्तमाचख्योपदेष्टुमाहमूलम्-नाणारुइं च छंदं च, परिवज्जिज संजए। अणट्ठा जे अ सवत्था, इइ विज्जामणुसंचरे ॥३०॥
व्याख्या-नानाऽनेकधा रुचिं च प्रक्रमात् क्रियावाद्यादिमतविषयां वाञ्छां, छन्दश्च खमतिकल्पितमाशयं, इहापि नानेति सम्बन्धादनेकविधं परिवर्जयेत् संयतः । तथाऽना निःप्रयोजनाः ये च व्यापारा इति गम्यं, 'सवत्था' अत्राकारस्थालाक्षणिकत्त्वात्सर्वत्र क्षेत्रादौ तानपि परिवर्जयेदिति सम्बन्ध इत्येवं रूपां विद्यां सम्यग्ज्ञानरूपां अनु ल-| क्षीकृत्य सञ्चरेः सम्यक् संयमाध्वनि यायाः इति सूत्रार्थः ॥ ३०॥ तथामूलम्-पडिक्कमामि पसिणाणं, परमंतेहिं वा पुणो। अहो उहिए अहोरायं, इइ विज्जा तवं चरे ॥३१॥ व्याख्या-प्रतिक्रमामि प्रतिनिवः 'पसिणाणंति' प्रश्नेभ्यः शुभाशुभसूचकेभ्योऽङ्गुष्ठप्रश्नादिभ्यः, तथा पेर गृहस्थाः
AMAMHARIRSPIREX