________________
उत्तराध्ययन ॥३३४॥
SACARRUSLCCALCAR
उपाश्रय इति शेषः, 'इरिआमिअत्ति' ईरे च गच्छामि च गोचरादाविति सूत्रार्थः ॥ २६ ॥ कुतस्त्वं तदुक्ताकर्णना- अष्टादशमदुपरमसि ? इत्याह--
ध्ययनम्
(१८) मूलम्-सवे ते विइआ मज्झं,मिच्छादिट्ठी अणारिआ। विजमाणे परे लोए,सम्मं जाणामि अप्पयं॥२७॥
पगा २७-२८ व्याख्या सर्वे ते क्रियादिवादिनो विदिता मम यथाऽमी मिथ्यादृष्टयः तत एवानार्याः पशुहिंसाद्यनार्यकर्मप्रवृत्ताः, कथमीशास्ते तव विदिताः? इत्याह-विद्यमाने परलोकेऽन्यजन्मनि सम्यग् जानाम्यात्मानं भवान्तरादा
गतं, ततः परलोकात्मनोः सम्यग् वेदनान्मम ते तादृशा विदितास्ततोऽहं तदुक्ताकर्णनादेः संयच्छामि इति सूत्रार्थः 8|॥ २७ ॥ कथमात्मानमन्यभवादागतं वेत्सीत्याह
मूलम्-अहमासि महापाणे,जुइमं वरिससओवमे।जा सा पाली महापाली,दिवा वरिससओवमा॥२८॥ ___ व्याख्या-'अहमासित्ति' अहमभूवं महाप्राणे ब्रह्मलोकविमाने द्युतिमान् वर्षशतजीविना उपमा यस्याऽसौ वर्षशतोपमः, मध्यपदलोपीसमासः, अयमों यथेह सम्प्रति वर्षशतजीवी पूर्णायुरुच्यते तथाऽहमपि तत्र पूर्णायुरभूवं, ॥ ३३४॥ तथाहि-या सा पालिरिव पालिः जीवितजलधारणाद्भवस्थितिः, सा चोत्तरत्र महाशब्दोपादानादिह पल्योपमप्रमाणा, महापाली सागरोपमप्रमाणा, तस्या एव महत्वात् , दिवि भवा दिव्या वर्षशतैः केशखण्डोद्धारहेतुभिरुपमा अर्थात्