SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ अष्टादशमध्ययनम् गा२५-२६ 9545525RSEASEARC55 ज्ञात एव ज्ञातकः क्षत्रियः, स चात्र प्रस्तावात् महावीरः, परिनिर्वृतः कषायानलविध्यापनाच्छीतीभूतः, विद्याचरणाभ्यां क्षायिकज्ञानचारित्राभ्यां संपन्नो यः स तथा, अत एव सत्यः सत्यवाक्, सत्यपराक्रमः सत्यवीयः, इति सूत्रार्थः ॥ २४ ॥ तेषां फलमाह४ मूलम्-पडंति नरए घोरे, जे नरा पावकारिणो। दिवं च गई गच्छंति, चरित्ता धम्ममारिअं ॥२५॥ ___ व्याख्या-पतन्ति नरके घोरे रौद्रे ये नरा उपलक्षणत्वादन्ये च जीवाः, पापमिह प्रस्तावादसत्प्ररूपणारूपं कर्तुं शीलं येषां ते पापकारिणः, दिव्यां देवसम्बन्धिनी सर्वगतिप्रधानां वा सिद्धिरूपां गतिं गच्छन्ति चरित्वा आसेव्य धर्ममिह सत्प्ररूपणारूपं आर्यमुत्तमं, ततोऽसत्प्ररूपणां हित्वा सत्प्ररूपणापरेणैव भवता भवितव्यमिति भावः, इति सूत्रार्थः ॥ २५ ॥ अथ कथममी पापकारिणः इत्याहमूलम्-मायाबुइअमेअंतु, मुसाभासा निरस्थिआ। संजममाणोवि अहं, वसामि इरिआमि अ ॥२६॥ व्याख्या-मायया शाठ्येन 'बुइअंति' उक्तं मायोक्तं एतदनन्तरोक्तं क्रियादिवादिभिरुक्तं, तुरेवकारार्थः स च |मायोक्तमेवेत्यत्र योज्यः, अत एव तेषां मृषा भाषा, निरर्थिका सम्यगभिधेयशून्या, ततः 'संजममाणोवित्ति' अपिरेवकारार्थः, ततः संयच्छन्नेवोपरमन्नेव तदुक्तिश्रवणादेः, अहमित्यात्मनिर्देशो विशेषेण तं स्थिरीकर्तुं बसामि तिष्ठामि
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy