SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ ३३३ ॥ १५ १८ २१ २४ आत्मनो अव्यापित्वे तद्गुणयोर्धर्माधर्मयोरपि अव्यापित्वं तथा च द्वीपान्तरगतदेवदत्तादृष्टाकृष्टमणिमुक्तादीनामिहा| गमनं न स्यादिति, भिन्नदेशस्थस्याप्ययस्कान्तादेर्लोहाद्या कर्षणशक्तिदर्शनाच्छरीरव्यापिनोरपि धर्माऽधर्म योर्दूरस्थस्याऽपि वस्तुन आकर्षणमुपपद्यत एवेति न विभुत्वमात्मनो युज्यते । तथाऽविभुरप्यङ्गुष्टपर्वमात्राद्यधिष्ठानो यैरिष्यते तेषामपि | शेषावयवेषु चैतन्याभावाच्छस्त्रादिना छेदने वेदनानुभवाभावः स्यान्न चैवं दृश्यते, एवं कर्तृत्वाद्येकान्तवादोऽपि स्वधियाऽपासनीयः । अक्रियावादिनस्तु अस्तिक्रियाविशिष्टमात्मानं नेच्छन्त्येव, तदप्यसङ्गततरं, अहं सुखीत्यादिप्रत्ययानामन्यथानुपपत्या मानसप्रत्यक्षादिप्रमाणगम्यत्वात् तस्य । विनयवादिनस्तु सुरनृपमुनिगजवाजिगो मृगकरभमहिकुक्कुरछूगलश्टगालका कमकरादिनमस्कारकरणादेव कर्मक्षयमभ्युपगताः, दुष्टञ्चैतत्, लोकसमयवेदेषु गुणाधिकस्यैव विनयार्हतया प्रतीतत्वात् तदन्यविनयस्य चाशुभफलत्वात् । अज्ञानवादिनश्च ज्ञानस्य मोक्षं प्रत्यनुपयोगित्वात् केवलं कष्टमेव कार्य, न हि कष्टविनेष्टसिद्धिरिति प्रतिपन्नाः, इदमप्ययुक्तमेव, ज्ञानमन्तरेण हेयोपादेयनिवृत्तिप्रवृत्त्यभावात् ज्ञानं विना च भूयोपि कष्टानुष्ठानं पशोरिव व्यर्थमेव स्यादिति सर्वेऽप्यमी कुत्सितमेव प्रभाषन्ते इति स्थितमिति सूत्रार्थः ॥ २३ ॥ न चैतत्खाभिप्रायेणैवोच्यते इत्याह मूलम् - इइ पाउकरे बुद्धे, नायए परिनिधुडे । विज्जाचरणसंपन्ने, सच्चे सच्चपरक्कमे ॥ २४ ॥ व्याख्या- इति एते क्रियावाद्यादयः कुत्सितं प्रभाषन्ते इत्येवं रूपं ' पाउकरेत्ति' प्रादुरकार्षीत् प्रकटितवान् बुद्धो ज्ञाततत्वो, अष्टादशमध्ययनम् (१८) गा २४ ॥ ३३३ ॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy