________________
du
नुबन्धनानि, तृष्णालोभस्तद्रूपाण्यनुबन्धनानि तृष्णानुबन्धनानि च व्यवच्छिनत्ति । ततश्च मनोज्ञामनोज्ञेषु शब्दा
माएकोनत्रिंश दिषु विरज्यते, कषायप्रत्याख्यानेनैव गतत्वेऽपि वीतरागतायाः पृथगुपादानं रागस्यैव सकलानर्थमूलत्वख्यापनार्थम् मध्ययनम. ॥ ४५ ॥४७॥ वीतरागत्वस्य च क्षान्तिर्मूलमिति तामाह
प्र४६-४७ मूलम्-खंतीए णं भंते ! जीवे किं जणयइ ? खंतीए णं परीसहे जिणइ ॥ ४६॥४८॥ व्याख्या-क्षान्तिः क्रोधजयस्तया परीपहानाद्वधादीन् जयति॥४६॥४८॥क्षान्तिश्च मुक्त्या हढा स्यादिति तामाहमूलम्-मुत्तीए णं भंते ! जीवे किं जणयइ ? मुत्तीए णं अकिंचणं जणयइ, अकिंचणे अ जीवे
अत्थलोलाणं पुरिसाणं अपत्थणिजे हवइ ॥४७॥ ४९॥ व्याख्या-मुक्त्या निर्लोभतया 'अकिंचणंति' आकिञ्चन्यं निःपरिग्रहत्वं जनयति, अकिञ्चनश्च जीवोऽर्थलोलानां पुरुषाणां चौरादीनामप्रार्थनीयः पीडयितुमनभिलषणीयो भवति ॥४७॥४९॥ लोभाभावे च मायाकरणकारणाभावात्तदभावोऽपि स्यादित्यार्जवमाहमूलम्-अज्जवयाए णं भंते ! जीवे किं जणयइ ? अज्जवयाए णं काउज्जुअयं भावुज्जुअयं भासु