________________
६
९
उ० ८७
मूलम् - पडिरूवयाए णं भंते! जीवे किं जणयइ ? पडिरूवयाए णं लाघविअं जणयइ, लहुब्भुए अ णं जीवे अप्पमत्ते पागडलिंगे पसत्थलिंगे विसुद्धसम्मत्ते सत्तसमिइसम्मत्ते सवपाणभूअजीवसत्तेसु वीससणिजरूवे अप्पडिलेहे जिइंदिए विउलतवसमिइसमन्नागए आवि भवइ ॥ ४२ ॥ ४४ ॥
व्याख्या - प्रतिः सादृश्ये, ततः प्रतीति- स्थविरकल्पिकादिसदृशं रूपं वेषो यस्य स प्रतिरूपस्तस्य भावः प्रतिरूपता तयाऽधिकोपकरणत्यागरूपया लाघवमस्यास्तीति लाघविकस्तद्भावो लाघविकता तां द्रव्यतः खल्पोपकरणत्वेन भावतस्त्वप्रतिबद्धतया जनयति । लघुभूतश्च जीवोऽप्रमत्तस्तथा प्रकटलिङ्गः स्थविरकल्पिकादिरूपेण विज्ञायमा - नत्वात्, प्रशस्तलिङ्गो जीवरक्षा हेतुरजोहरणादिधारकत्वात्, विशुद्धसम्यक्त्वः क्रियया सम्यक्त्वविशोधनात्, 'सत्तसमिइसम्मत्तेत्ति' सत्यं च समितयश्च समाप्ताः परिपूर्णा यस्य स समाप्तसत्यसमितिः, सूत्रे क्तान्तस्यान्ते निपातः प्राकृतत्वात् । अत एव सर्वप्राण- भूत - जीव-सत्त्वेषु विश्वसनीयरूपस्तत्पीडापरिहारित्वात्, अल्पप्रत्युपेक्षोऽल्पोपधित्वात्, जितेन्द्रियो विपुलेनानेकभेदतया विस्तीर्णेन तपसा समितिभिश्च सर्वविषयव्यापितया विपुलाभिरेव सम
एकोनत्रिंश मध्ययनम्. प्र ४२