________________
एकोनत्रिंश मध्ययनम्. प्र३८-३९
बध्नाति, सकलबन्धहेतूनामुच्छेदात् । पूर्ववद्धं च भवोपग्राहिकर्मचतुष्कमन्यस्य तदाऽसम्भवात् ॥३७ ॥ ३९॥! योगप्रत्याख्यातुः शरीरप्रत्याख्यानमपि स्यादिति तदाहमूलम् सरीरपच्चक्खाणेणं भंते ! जीवे किं जणयइ ? सरीरपञ्चक्खाणेणं सिद्धाइसयगुणत्तं निवत्तेइ,
सिद्धाइसयगुणसंपन्ने अ णं जीवे लोगग्गमुवगए परमसुही भवइ ॥ ३८॥४०॥ व्याख्या-शरीरमौदारिकादि तत्प्रत्याख्यानेन सिद्धानामतिशयगुणाः “न कृष्णो न नीलः” इत्यादयो यस्य स सिद्धातिशयगुणस्तद्भावस्तत्त्वं जनयति, सिद्धातिशयगुणसम्पन्नश्च जीवो लोकाग्रभवत्वाल्लोकाग्रं मुक्तिपदमुपगतः परमसुखी भवति ॥ ३८॥४०॥ सम्भोगादिप्रत्याख्यानानि प्रायः सहायप्रत्याख्याने सुकराणीति तदाहमूलम्-सहायपच्चक्खाणेणं भंते ! जीवे किं जणयइ ? सहायपच्चक्खाणेणं रागीभावं जणयइ, रागी
भावभूए अ जीवे एगग्गं भावेमाणे अप्पझंझे अप्पकसाए अप्पकलहे अप्पतुमंतुमे संजमव
हुले संदरबहुले समाहिए आवि भवइ ॥ ३९ ॥ ४१॥ व्याख्या-सहायाः साहाय्यकारिणो यतयस्तत्प्रत्याख्यानेन तथाविधयोग्यताभाविनाऽभिग्रहविशेषेण एकीभावमेकत्वं जनयति, एकीभावं एकत्वं भृतः प्राप्तश्च जीव ऐकायं एकालम्बनत्वं भावयन्नभ्यस्यन् अल्पझंझोऽयाकलहः,