________________
विशपाएकोनत्रिंश
मध्ययनम्.
प्र २३
कर्मदलिका अल्पप्रदेशाग्राः प्रकरोति । आयुःकर्म च स्यात् कदाचिद्वनाति स्यान्न बध्नाति, तस्य त्रिभागादिशेषायुष्कतायामेव बन्धसम्भवात् , यदि बध्नाति तदा सुरायुरेव, मुनेस्तद्वन्धस्यैव सम्भवात् । असातवेदनीयं च कर्म चशब्दादन्याश्चाशुभप्रकृती! भूयो भूय उपचिनोति, भूयो भूयो ग्रहणं तु केनापि प्रमादेन प्रमत्तमुनेस्तद्वन्धस्यापि सम्भवात् । अनादिकं आदिरहितं, अनवदनं अनन्तं, 'दीहमद्धति' मकारोऽलाक्षणिकस्ततो दीर्घाद्धं दीर्घकालं, चत्वारश्चतुर्गतिलक्षणा अन्ता अवयवा यस्मिंस्तचतुरन्तं संसारकान्तारं क्षिप्रमेव व्यतिव्रजति विशेषेणातिकामति ॥ २२ ॥ २४ ॥ अभ्यस्तश्रुतेन धर्मकथापि कार्येति तामाहमूलम्-धम्मकहाएणं भंते ! जीवे किं जणयइ ? धम्मकहाएणं पवयणं पभावेइ, पवयणपभावए णं
जीवे आगमे सस्सभद्दत्ताए कम्मं निबंधइ ॥ २३ ॥ २५॥ व्याख्या-धर्मकथया व्याख्यानरूपया प्रवचनं शासनं प्रभावयति, उक्तं हि-“पावयणी १ धम्मकही २ वाइ ३ & नेमित्तिओ ४ तवस्सी ५ अ॥ विजा ६ सिद्धो अ ७ कई ८ अटेव पहावगा भणिआ” पाठान्तरे निर्जरां जनयति,
'आगमे सस्समद्दत्ताएत्ति' आगमिष्यतीति आगम आगामी कालस्तस्मिन् शश्वद्भद्रतया निरन्तरकल्याणतयोपलक्षितं
कर्म निबध्नाति, शुभानुवन्धि शुभमुपार्जयति इति भावः ॥ २३ ॥ २५ ॥ एवं पञ्चविधवाध्यायरतः श्रुताराधना दास्यादिति तामाह