SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ AAAAAAAAHARAS कचित्केपाश्चिदन्तर्भावे न घेतावन्तो भेदाः सम्भवन्तीति भावनीयमित्येकादशसूत्रार्थः ॥ २७॥ कैः पुनर्लिामा अष्टाविंश लामध्ययनम्सम्यक्त्वमस्तीति श्रद्धेयमित्याह गा२८-२९ मूलम-परमत्थसंथवो वा, सुदिट्रपरमत्थसेवणा वावि । वावण्णकुदंसणवज्जणा य सम्मत्तसद्दहणा॥२८॥ व्याख्या-परमास्तात्विकास्ते च ते अर्थाश्च जीवादयः परमार्थास्तेषु संस्तवस्तत्वरूपस्य पुनः पुनश्चिन्तनाकृतः3 परिचयः परमार्थसंस्तवः, 'वा' शब्दः समुच्चये, सुष्टु दृष्टाः उपलब्धाः परमार्था यैस्ते सुदृष्टपरमार्था आचार्यादयस्तत्सेवनं, चकारोऽनुक्तसंग्रहे, ततो यथाशक्ति तद्वैयावृत्त्यादिकरणं च, अपिः समुच्चये, 'वावण्णकुदंसणत्ति' दर्शनशब्दः प्रत्येकं सम्बध्यते, ततो व्यापन्नं विनष्टं दर्शनं येषां ते व्यापन्नदर्शना निवादयः, तथा कुत्सितं दर्शनं येषां ते कुदर्शनाः शाक्यादयः, तेषां वर्जनं व्यापन्नकुदर्शनवर्जनं । सर्वत्र सूत्रत्वात्स्त्रीत्वं, चः समुच्चये, सम्यक्त्वं श्रद्धीयतेऽ नेनेति सम्यक्त्वश्रद्धानमिदं, एभिर्लिङ्गैः सम्यक्त्वं श्रद्धीयते इति भाव इति सूत्रार्थः ॥ २८ ॥ इत्थं सम्यक्त्वलिङ्गान्यभिधाय तस्यैव महात्म्यमुपदर्शयन्नाहमूलम्-नस्थि चरित्तं सम्मत्त-विहणं दंसणे उभइअव्वं । सम्भत्तचरित्ताइं, जुगवं पुवं व सम्मत्तं ॥२९॥ व्याख्या-नास्ति उपलक्षणत्वान्नासीन भविष्यति च चारित्रं सम्यक्त्वविहीनं, अयं भावो न यावत्सम्यक्त्वप्रा %AA%E
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy