________________
उत्तराध्ययन ॥४९॥
अष्टाविंशमध्ययनम्
(२८) गा२६-२७
36*RARIS
अयं भावः-दर्शनाद्याचारानुष्ठाने यस्य भावतो रुचिरस्ति स खलु क्रियारुचिर्नामेत्यभ्युपगन्तव्यः ॥ २५ ॥ संक्षेपरुचिमाह
मूलम्-अणभिग्गहिअकुदिट्री, संखेवरुइत्ति होइ नायवो।।
अविसारओ पवयणे, अणभिग्गहिओ अ सेसेसु ॥ २६ ॥ व्याख्या-अनभिगृहीता अनङ्गीकृता कुदृष्टिः सौगतादिमतरूपा येन स तथा संक्षेपरुचिरिति भवति ज्ञातव्यः, अविशारदोऽकुशलः प्रवचने जिनमते, अनभिगृहीतोऽनभिज्ञः शेपेषु कपिलादिप्रणीतप्रवचनेषु, अयं भावो य [उक्तविशेषणविशिष्टः संक्षेपेणैव चिलातिपुत्र इव पदत्रयेण तत्त्वं श्रद्दधाति स संक्षेपरुचिः॥२६॥ धर्मरुचिमाह
मूलम्-जो अस्थिकायधम्म, सुअधम्म खलु चरित्तधम्मं च।
सहइ जिणाभिहिअं, सो धम्मरुइत्ति नायवो ॥ २७ ॥ व्याख्या--योऽस्तिकायानां धर्मादीनां धर्मो गत्युपष्टम्भादिरस्तिकायधर्मस्तं, श्रुतधर्ममागमरूपं, चरित्रधर्म च सामायिकादिभेदं श्रद्दधाति जिनाभिहितं । धर्मेषु पर्यायेषु धर्मे वा श्रुतधर्मादौ रुचिरस्येति कृत्वा, स धर्मरुचिरिति ज्ञातव्यः । शिष्यव्युत्पादनार्थ चैवमुपाधिभेदतः सम्यक्त्वभेदाभिधानं, अन्यथा हि निसर्गोपदेशाधिगमादिषु
॥४९९॥
SA3%