SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥५०॥ अष्टाविंशमध्ययनम्. ★ा (२८) गा३०-३१ १५ HOGYANISTICS***AX तिन तावद्भावचारित्रमिति, दर्शने तु सम्यक्त्वे पुनः सति भक्तव्यं, भवति वा न वा, प्रक्रमाचारित्रं । किमित्येवमत आह-सम्यक्त्वचरित्रे युगपत्समुत्पद्यते इति शेषः, पूर्व वा चारित्रोत्पत्तेः सम्यक्त्वमुत्पद्यते । ततो यदा युगपदुत्पादस्तदा तयोः सहभावो, यदा तु पूर्व सम्यक्त्वं तदा तत्र चारित्रं भाज्यम् ॥ २९ ॥ अन्यच्च मूलम्-नादंसणिस्स नाणं, नाणेण विणा न होन्ति चरणगुणा । अगुणिस्स नत्थि मोक्खो, नत्थि अमुक्कस्स निवाणं ॥३०॥ व्याख्या-नादर्शनिनः सम्यक्त्वरहितस्य ज्ञानं सम्यग् ज्ञान, ज्ञानेन विना ज्ञानरहिता न भवन्ति चरणगुणाः, तत्र चरणं व्रतादि, गुणाः पिण्ड विशुद्ध्यादयः, अगुणिनोऽनन्तरोक्तगुणरहितस्य नास्ति मोक्षो निखिलकर्मक्षयात्मकः, नास्ति अमुक्तस्य कर्मणेति गम्यते निर्वाणं मुक्तिपदावाप्तिः । तदत्र पूर्वसूत्रेण मुक्त्यनन्तरहेतोरपि चरणस्य सम्यक्त्वभाव एव भवनं तन्महात्म्यमुक्तमनेन तु सूत्रेण सम्यक्त्वाभावे उत्तरोत्तरगुणव्यतिरेकदर्शनेनेति सूत्रद्वयार्थः ॥ ३० ॥ अस्य चाष्टविधाचारयुक्तस्यैवोत्तरोत्तरगुणावाप्तिहेतुत्वमिति तान् दर्शयितुमाह मूलम्-निस्संकिय निकंखिय, निवितिगिच्छा अमूढदिट्री अ। उववूह-थिरीकरणे, वच्छल्ल-पभावणे अट्ठ ॥ ३१ ॥ ॥५०॥ २४
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy