________________
१२
| मूलम् — जीवाऽजीवा य बंधो अ, पुण्णं पावासवो तहा। संवरो निज्जरा मोक्खो, संतेए तहिआ नव ॥ १४ ॥ व्याख्या - जीवाः प्रतीताः, अजीवा धर्मास्तिकायादयः, बन्धश्च जीवकर्मणोः संश्लेषः, पुण्यं शुभप्रकृतिरूपं सातादि, पापमशुभप्रकृतिरूपं मिथ्यात्वादि, आश्रवः कर्मोपादानहेतुहिंसादिः, पुण्यादीनां द्वन्दः । तथेति समुच्चये, संवरो महात्रतादिभिराश्रवनिरोधः, निर्जरा विपाकात्तपसो वा कर्मपरिशाटः, मोक्षः सकलकर्मक्षयलक्षणः, सन्त्येते तथ्या नव भावा इति शेषः ॥ १४ ॥ यद्यमी तथ्यास्ततः किमित्याह
| मूलम् - तहिआणं तु भावाणं, सब्भावे उवएसणं । भावेण सद्दहंतस्स, संमत्तं ति विआहिअं ॥१५॥
व्याख्या - तथ्यानां तु भावानां जीवादीनां सद्भावे सद्भावविषयमवितथसत्ताभिधायकमित्यर्थः, उपदेशनं गुर्वादीनामुपदेशं भावेनान्तः करणेन श्रद्दधतस्तथेति प्रतिपद्यमानस्य जन्तोः सम्यक्त्वं सम्यक्त्वमोहनीयक्षयादिसमुत्थात्मपरिणामरूपं तदिति जीवादिभावश्रद्धानं व्याख्यातं विशेषेणाख्यातं, जिनैरिति गम्यत इति सूत्रार्थः ॥ १५ ॥ | एवं सम्यक्त्वस्वरूपमुक्त्वा तद्भेदानाह—
मूलम् — निस्संग्गुवएस रुई, आणीरुइ सुत्त - बीअरुइमेव ।
अभिगम - वित्थॉररुइ, किंरिआ - संखेवे - धम्मरुई ॥ १६ ॥
अष्टाविंशमध्ययनम्. गा १४-१६