________________
उत्तराध्ययन ॥४९७॥
१५
१८
२१
२४
व्याख्या- 'निस्सग्गुवएसरुइत्ति' रुचिशब्दः प्रत्येकं योज्यते, ततो निसर्गः खभावस्तेन रुचिस्तत्वाभिलाषोऽस्येति निसर्गरुचिः १ । उपदेशो गुर्वादिकथनं तेन रुचिर्यस्येत्युपदेशरुचिः २ । आज्ञा सर्वज्ञवचनात्मिका तथा रुचिर्यस्य स तथा ३ । 'सुत्तबीअरुइमेवत्ति' इहापि रुचिशब्दस्य प्रत्येकं योगात्सूत्रेणागमेन रुचिर्यस्य स सूत्ररुचिः ४ । बीजमिव बीजं यदेकमप्यनेकार्थप्रबोधोत्पादकं वचस्तेन रुचिर्यस्य स बीजरुचिः ५ । अनयोः समाहारः, एवेति | समुच्चये । अभिगमो विज्ञानं, विस्तरो व्यासस्ताभ्यां प्रत्येकं रुचिशब्दो योज्यते ततोऽभिगमरुचिर्विस्ताररुचिश्चेति ६-७ तथा क्रिया अनुष्ठानं, संक्षेपः संग्रहो धर्मः श्रुतधर्मादिस्तेषु रुचिर्यस्येति प्रत्येकं रुचिशब्दयोगात् क्रियारुचिः संक्षेप| रुचिर्धर्मरुचिश्च - ८-९ - १० - विज्ञेय इति शेषः । यच्चेह सम्यक्त्वस्य जीवानन्यत्वेनाभिधानं तद्गुणगुणिनोः कथञ्चिदभेद इति ख्यापनार्थमिति सूत्रसंक्षेपार्थः ॥ १६ ॥ व्यासार्थं तु स्वत एवाह सूत्रकृत् —
मूलम् - भूअत्थेणाहिगया, जीवाऽजीवा य पुण्ण-पावं च । सहसंमुइआ आसवसंवरे अ रोएइ उ निसग्गो
व्याख्या- 'भूअत्थेत्ति' भावप्रधानत्वान्निर्देशस्य भूतार्थत्वेन सद्भूता एते अर्था इत्येवंरूपेण निर्णयेनाधिगताः परिच्छिन्ना येनेति गम्यते, जीवा अजीवाश्च पुण्यपापं च कथमधिगता इत्याह- 'सहसंमुहअत्ति' सोपस्कारत्वात् सूत्रत्वाच्च सहात्मना या सङ्गता मतिः सा सहसंमतिस्तया, कोर्थः ? परोपदेशनिरपेक्षया जातिस्मरणादिरूपया बुद्ध्या 'आसवसंवरे अत्ति' आश्रवसंवरौ चशब्दोऽनुक्तबन्धादिसमुच्चये, ततो बन्धादयश्च येनाधिगता इतियोगः ।
अष्टाविंशमध्ययनम्.
(२८)
गा १७
॥४९७॥