SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥४९॥ अष्टाविंशमध्ययनम्. "(२८). गा१२-१३ मूलम्-सबंधयार उजोओ, पहा छायाऽऽतवेइ वा। वण्ण-रस-गंध-फासा, पुग्गलाणं तु लक्खणं१२ ___ व्याख्या-शब्दो ध्वनिः, अन्धकारो ध्वान्तं, उभयत्र सुपो लुपू । उद्योतो रत्नादिप्रकाशः, प्रभा चन्द्रादिरुचिः, छाया शैत्यगुणा, आतपस्तपनबिम्बजोष्णप्रकाशरूपः, 'इति' शब्द आद्यर्थस्ततश्च सम्बन्धभेदादीनां परिग्रहः, वा समुच्चये । तथा वर्णः कृष्णादिः, रसस्तिक्तादिः, गन्धः सुरभिप्रभृतिः, स्पर्शः शीतादिरेषां द्वन्द्वः । पुद्गलानां स्कन्धादीनां तु पुनर्लक्षणं, एभिरेव तेषां लक्ष्यत्वादिति ॥ १२ ॥ द्रव्यलक्षणमुक्त्वा पर्यायलक्षणमाहमूलम्-एगत्तं च पुहत्तं च, संखा संठाणमेव य। संजोगा य विभागा य, पजवाणं तु लक्खणं ॥१३॥ व्याख्या-एकत्वं भिन्नेष्वपि परमाण्वादिषु यदेकोयं घटादिरिति प्रतीतिहेतुः, पृथक्त्वं च अयमस्मात्पृथगिति प्रत्ययनिमित्तं, संख्या यत एको द्वौ त्रय इत्यादिका प्रतीतिर्जायते, संस्थानं परिमण्डलोयमित्यादि बुद्धिनिबन्धनं, एवः पूत्तौ, चः समुच्चये, संयोगा अयमङ्गुल्योः संयोग इत्यादिव्यपदेशहेतवः, विभागाश्चायमितो विभक्त इतिमतिहेतवः, उभयत्र व्यक्त्यपेक्षया बहुवचनं, उपलक्षणत्वान्नवपुराणत्वादीनि च, पर्यवाणां तुः पूर्ती, लक्षणं । गुणानां तु रूपादीनामतिप्रतीतत्वालक्षणं नोक्तमिति सूत्रनवकार्थः ॥१३॥ इत्थं खरूपतो विषयतश्च ज्ञानमभिधाय दर्शनमाह ॥४९६॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy