________________
RRCRANA.ORG
कायः स्थानं स्थितिस्तल्लक्षणः । अयं भावः-खत एव गमनं प्रति प्रवृत्तानां जीवपुद्गलानां गत्युपष्टम्भकारी धर्मास्ति
| अष्टाविंशकायः, स्थितिपरिणतानां तु तेषां स्थितिक्रियोपकारी अधर्मास्तिकाय इति । भाजनमाधारः, सर्वद्रव्याणां नमःमध्ययनम्. आकाशं, अवगाहोऽवकाशस्तल्लक्षणं । जीवादीनामवगाटुं प्रवृत्तानां अवकाशदमाकाशमिति भावः ॥९॥
गा१०-११ मूलम्-वत्तणालक्खणो कालो, जीवो उवओगलक्खणो ।
नाणेणं दंसणेणं च, सुहेण य दुहेण य ॥ १०॥ व्याख्या-वर्तन्ते भवन्ति भावास्तेन तेन रूपेण तान्प्रति प्रयोजकत्वं वर्त्तना, सा लक्षणमस्येति वर्तनालक्षणः कालो द्रुमादिपुष्पोद्भेदादिनयत्यहेतुः । जीवो जन्तुरुपयोगो मतिज्ञानादिलक्षणमस्येत्युपयोगलक्षणः, अत एव ज्ञानेन विशेषग्राहिणा दर्शनेन च सामान्यविषयेण सुखेन दुःखेन च लक्ष्यत इति गम्यते ॥ १०॥ अथ शिष्याणां दृढतरसंस्कारार्थमुक्तं लक्षणमनूद्य लक्षणान्तरमाहमूलम्-नाणं च दंसणं चेव, चरित्तं च तवो तहा। वीरिअं उवओगो अ, एअं जीवस्स लक्खणं॥११॥ ___ व्याख्या-'बीरिअंति' वीर्य सामर्थ्य, उपयोगो अवहितत्वं, एतत् जीवस्य लक्षणं । अनेन हि जीवोऽनन्यसाधारणतया लक्ष्यते ॥ ११ ॥ अथ पुगललक्षणमाह