SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥४९५॥ अष्टाविंश. मध्ययनम्. (२८) |गा ७-९ रूपादीस्तन्मतमवमतं । लक्षणं पर्यवाणां तु पुनः उभयोईयोः प्रक्रमाव्यगुणयोराश्रिताः ‘भवेत्ति' भवेयुः॥६॥ गुणानामाश्रयो द्रव्यमित्युक्तं तत्र द्रव्यं कतिभेदमित्याह मूलम्-धम्मो अहम्मो आगासं, कालो पोग्गल-जंतवो। एस लोगुत्ति पण्णत्तो, जिणेहिं वरदंसिहिं ॥७॥ व्याख्या-धर्मो धर्मास्तिकायः, अधर्मोऽधर्मास्तिकायः, आकाशमाकाशास्तिकायः, कालो अद्धा समयाद्यात्मकः, पुद्गलजन्तवः इति पुद्गलास्तिकायो जीवास्तिकायश्च, एतानि द्रव्याणि ज्ञेयानीत्यध्याहारः। अत्र प्रसङ्गाल्लोकखरूपमप्याह-एषोऽनन्तरोक्तद्रव्यसमूहो लोक इति प्रज्ञतो जिनैर्वरदर्शिभिः ॥७॥ धर्मादीन्येव द्रव्याणि भेदत आह-- मूलम्-धम्मो अहम्मो आगासं, दवं इकिकमाहि। अणंताणि अदवाणि, कालो पुग्गलजंतवो ॥८॥ व्याख्या-धर्मः अधर्म आकाशं द्रव्यमेकैकमाख्यातं जिनैरिति शेषः, अनन्तानि च पुनद्रव्याणि कालः पुद्गलजन्तवश्च । कालस्य चानन्त्यमतीतानागतापेक्षयेति ॥ ८॥ द्रव्याणां लक्षणान्याहमूलम्-गइलक्खणो उधम्मो, अहम्मो ठाणलक्खणो।भायणं सबदवाणं, नहं ओगाहलक्खणं ॥९॥ व्याख्या-गतिर्देशान्तरप्राप्तिः सा लक्षणमस्येति गतिलक्षणः, तुः पूत्तौं, धर्मो धर्मास्तिकायः । अधर्मोऽधर्मास्ति AKASGACALCAMECASICALCASG | ॥४९५॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy