________________
उत्तराध्ययन ॥४९४॥
१२
अष्टाविंशमध्ययनम्.
(२८) गा २-४
मूलम्-णाणं च दंसणं चेव, चरित्तं च तवो तहा । एस मग्गुत्ति पण्णत्तो, जिणेहिं वरदंसिहिं ॥२॥ __ व्याख्या-ज्ञानं ज्ञानावरणीयकर्मक्षयक्षयोपशमाविर्भूतं सम्यक् ज्ञानं मत्यादिभेदं, दर्शनं दर्शनमोहनीयक्षयक्षयोपशमोपशमसमुत्थमहदुक्तजीवादितत्वरुचिरूपं क्षायिकादिभेदं, चारित्रं चारित्रमोहक्षयादिसम्भवं सामायिकादिभेदं सदसक्रियाप्रवृत्तिनिवृत्तिरूपं, तपो बाह्याभ्यन्तरभेदभिन्नं जिनोक्तमेव । सर्वत्र चकारस्तथेति च समुच्चये, समुच्चयश्चेह समुदितानामेषां मुक्तिमार्गत्वख्यापकः । एष मार्ग इति प्रज्ञप्तो जिनैवरदर्शिभिः। अत्र च चारित्रान्तर्गतत्वेऽपि तपसो भेदेनोपादानं अस्यैव कर्मक्षपणं प्रति परमकारणत्वसूचकमिति सूत्रार्थः ॥२॥ अथास्यैवानुवादद्वारेण फलं दर्शयितुमाह-- मूलम्-नाणं च दंसणं चेव, चरित्तं च तवो तहा। एअं मग्गमणुपत्ता, जीवा गच्छंति सोग्गइं॥३॥ __ व्याख्या-'एअंति' एतमनन्तरोक्तं मार्ग अनुप्राप्ता आश्रिता जीवा गच्छन्ति सुगतिं मुक्तिरूपामिति सूत्रार्थः ॥३॥ ज्ञानादीन्येव क्रमेणाभिधातुमाह-- मूलम्-तत्थ पंचविहं नाणं, सुअं आभिणिबोहि।ओहिणाणं च तइअं, मणनाणं च केवलं ॥४॥ व्याख्या-तत्र तेषु ज्ञानादिषु मध्ये पञ्चविधं पञ्चप्रकारं ज्ञानं, के ते पञ्चप्रकाराः ? इत्याह-श्रुतं श्रुतज्ञानं,
KARNAMASALACK
॥४९४॥