________________
गा
545525ASAAR
॥ अथ अष्टाविंशमध्ययनम् ॥
अष्टाविंश
मध्ययनम्. । ॥ अहम् ॥ उक्तं सप्तविंशमध्ययनमथ मोक्षमार्गगत्याख्यमष्टाविंशमारभ्यते । अस्य चायं सम्बन्धोऽनन्तराध्ययने शठतात्यागेनाशठता खीकार्येत्युक्तं, अशठेन च सुप्रापैव मोक्षमार्गगतिरिति तदभिधायकमिदं प्रस्तूयते, इति सम्बन्धस्यास्येदमादि सूत्रम् ॥ मूलम्--मोक्खमग्गगई तच्चं, सुणेह जिणभासिअं। चउकारणसंजुत्तं, नाणदसणलक्खणं ॥१॥ __ व्याख्या-मोक्षः सकलकर्मक्षयः तस्य मार्गो ज्ञानादिरूपो मोक्षमार्गस्तेन गतिः सिद्धिगमनरूपा मोक्षमार्गग|तिस्तां कथ्यमानामिति गम्यं, तथ्यां सत्यां शृणुत जिनभाषिताम् । चत्वारि कारणानि वक्ष्यमाणानि ज्ञानादीनि तैः४ संयुक्ता चतुष्कारणसंयुक्ता तां । ननु अमूनि चत्वारि कारणानि कर्मक्षयलक्षणस्य मोक्षस्यैव, गतेस्तु तदनन्तरभावित्वात् कथं चतुष्कारणवतीत्वमस्याः? उच्यते-व्यवहारतः कारणकारणस्यापि कारणत्वाभिधानात् । तथा ज्ञानदशेने |विशेषसामान्योपयोगरूपे लक्षणे यस्याः सा तथा तामिति सूत्रार्थः ॥१॥ यदुक्तं मोक्षमार्गगतिं शृणुतेति, तत्र मोक्षमार्ग तावदाह