________________
उत्तराध्ययन ॥४९२॥
सप्तविंशमध्ययनम्.
(२७) गा१४-१६
9NLCSCRECECASHAREKAR
पार्थे तिष्ठन्ति मा कदाचिदेषां किञ्चित्कृत्यं कर्तव्यं भविष्यतीति । कथञ्चित्कर्तुं प्रवर्तितास्तु राजवेष्टिमिव मन्यमानाः कुर्वन्ति भ्रकुर्टि मुखे । सकलवपुर्विकारोपलक्षणमेतत् ॥ १३ ॥ अपरञ्चमूलम्-वाइआ संगहिआ चेव, भत्तपाणेण पोसिआ।जायपक्खा जहा हंसा, पक्कमति दिसोदिसं ॥१४॥ ___ व्याख्या-वाचिताः सूत्रं पाठिताः, उपलक्षणत्वात्तदर्थ च ग्राहिताः । सङ्ग्रहीताः परिगृहे कृताः, चशब्दादीक्षिताः खयमिति गम्यते, एवेति पूरणे । भक्तपानेन पोषिताः । तथापि जातपक्षाः यथा हंसास्तथैव प्रक्रामन्ति दिशोदिशं दिशि दिशि यदृच्छाविहारिणो भवन्तीत्यर्थः । प्रागेकप्रक्रमेऽपि यदिह बहूनामभिधानं तदीदृशां बहुत्वख्यापनार्थमिति सूत्रषट्कार्थः ॥ १४ ॥ इत्थं कुशिष्यखरूपं विचिन्त्य तैरेवासमाधि खेदं च प्रापितो यदसौ चक्रे तदाहमूलम्-अह सारही विचिंतेइ, खलुंकेहिं समागओ।किंमज्झ दुट्ठसीसेहिं, अप्पा मे अवसीअइ ॥१५॥ ____ व्याख्या--अथेति पूर्वोक्तचिन्तानन्तरं सारथिरिव सारथिर्द्धर्मयानस्येति प्रक्रमः, गर्गाचार्यो विचिन्तयति, खलुकैः कुशिष्यैः समागतः संयुक्तः किं ? न किञ्चिदित्यर्थः, मम प्रयोजनं सिध्यतीति शेषः, दुष्टशिष्यैः प्रक्रमात्प्रेरितैः केवलमात्मा मे ममाऽवसीदति, एतत्प्रेरणाव्यग्रतया खकार्यहानेस्ततो वरमेतत्त्यागत उद्यतविहारेण विहृतमिति भावः ॥ १५॥ अथ तत्प्रेरणान्तराले खकार्यमपि किं न क्रियते ? इत्याहमूलम्-जारिसा मम सीसा उ, तारिसा गलिगदहा। गलिगदहे चइत्ताणं, दढं पगिण्हई तवं ॥ १६ ॥
MCGREALINGAACARDAMARA
४९२॥
गन्तराले खकाणाव्यग्रतया खकामा प्रयोजनं सिध्यात प्रक्रमः, गर्गाचा अवसीम