________________
S
-SAKASHAKARWAR
व्याख्या-सोऽप्यनुशिष्यमाणः कुशिष्यः 'अंतरभासिल्लोत्ति' अन्तरभाषावान् गुरुवाक्यान्तराल एव खाभिमत
सप्तविंशभाषको दोषवापराधमेव प्रकरोति न त्वनुशिष्यमाणोऽपि तद्विच्छेदमिति भावः । आचार्याणां सतामस्माकं तद्-18
मध्ययनम्.
गा १२-१३ चनं शिक्षावचनं प्रतिकूलयति विपरीतं करोति कुयुक्तिभिरभीक्ष्णम् ॥ ११ ॥ कथमित्याह--
मूलम्-न सा ममं विआणाइ, नवि सा मज्झ दाहिइ।।
निग्गया होहिई मन्ने, साहू अन्नोऽत्थ वच्चउ ॥ १२॥ व्याख्या-न सा मां विजानाति, अयं भावः-अमुकस्याः श्राविकाया गृहात् ग्लानाद्यर्थ पथ्याद्यानीयतामिति कदाचिदस्माभिरुक्तोऽप्यसौ शाठ्येनोत्तरमाह-न सा मां प्रत्यभिजानाति, नापि सा मह्यं दास्यति पथ्यादीति शेषः, यदि वा निर्गता गृहात्सा भविष्यतीति मन्ये, इति वक्ति । अथवा साधुरन्योऽत्रास्मिन् कार्ये व्रजतु, किमहमेवैकः साधुरस्मीत्यादि ब्रूते ॥ १२ ॥ अन्यचमूलम्-पेसिआ पलिउंचंति, ते परियंति समंतओ। रायविट्टि व मन्नंता, करिति भिउडि मुहे ॥ १३॥
व्याख्या-प्रेषिताः क्वचित्कार्ये 'पलिउंचंतित्ति' तत्कार्य कुतो न कृतमिति पृष्टाः सन्तोऽपह्नवते, कदा वयमुक्ताः ? गता वा तत्र वयं न त्वसौ दृष्टेति । ते कुशिष्याः 'परियंति' पर्यटन्ति समन्ततः सर्वासु दिक्षु न त्वस्म-18
*
ANS