________________
उत्तराध्ययन ॥४९१॥
१५
१८
२१
२४
व्याख्या -- खलुङ्का यादृशा योज्या दुःशिष्या अपि तादृशा एव, हुरेवकारार्थोऽत्र योज्यः । कुत इत्याह-यतो योजिता धर्मयाने भज्यन्ते, न सम्यक् प्रवर्त्तन्ते, 'धिइदुब्बलत्ति' आर्षत्वाद्दुर्बलघृतयः कृशस्थैर्या धर्मानुष्ठाने इति गम्यम् ॥ ८ ॥ धृतिदौर्बल्यमेव स्पष्टयितुमाह -
मूलम् - इड्डीगारविए एगे, एगेऽत्थ रसगारवे । सायागारविए एगे, एगे सुचिरकोहणे ॥ ९ ॥
व्याख्या - ऋध्या गौरवं ऋद्धिमन्तः श्राद्धा मे वश्याः सम्पद्यते च चिन्तितमुपकरणादि इत्याद्यात्मबहुमानरूपं ऋद्धिगौरवं तदस्यास्तीति ऋद्धिगौरविक एको नास्मन्नियोगे प्रवर्त्तते । एकोऽत्रेति कुशिष्याधिकारे, रसेषु मधुरादिषु गौरवं यस्य स रसगौरवो ग्लानाद्याहारदानतपसोर्न प्रवर्त्तते । सातगौरविक एकः, सुखप्रतिबद्धो नाऽप्रतिबद्धविहारादौ प्रवर्त्तते । एकः सुचिरक्रोधनो दीर्घरोपतयैव कृत्येषु न प्रवर्त्तते ॥ ९ ॥
मूलम् - भिक्खालसीए एगे, एगे ओमाणभीरुए थद्धे । एगं च अणुसासम्मि, हेऊहिं कारणेहि अ ॥ १० ॥ व्याख्या - भिक्षालसिको भिक्षालस्यवानेको न गोचराग्रं गच्छति, एकोऽपमानभीरुर्भिक्षां भ्रमन्नपि न यस्य तस्यैव गृहे प्रवेष्टुमीहते, स्तब्धोऽहङ्कारवान्न निजकुग्रहान्नमयितुं शक्य एक इति शेषः, एकं च दुःशिष्यं 'अणुसासम्मित्ति' अनुशास्मि अहं हेतुभिः कारणैश्वोक्तरूपैः ॥ १० ॥
| मूलम् - सोवि अंतरभासिल्लो, दोसमेव पकुवइ । आयरिआणं तं वयणं, पडिकूलेइ अभिक्खणं ॥ ११ ॥
सप्तविंशमध्ययनम्. (२७)
गा ९-११
॥४९१॥