________________
उत्तराध्ययन ॥४८७॥
१५
१८
२१
२४
पाहिनकृत्यमुक्त्वा रात्रिकृत्यं सार्द्धत्रयोदशसूत्रैराह । काउस्सग्गमित्यादि - 'तओत्ति' ततः प्रश्रवणादिभूमिप्रतिलेखनानन्तरम् ॥ ३९ ॥ कायोत्सर्गे स्थितश्च यत्कुर्यात्तदाह
मूलम् — देसिअं च अईआरं, चिंतिज्ज अणुपुवसो । नाणे अ दंसणे चेव, चरित्तंमि तहेव य ॥ ४० ॥
व्याख्या – 'देसिअंति' सूत्रत्वाद्दैवसिकं, अतिचारं चिन्तयेदानुपूर्व्या क्रमेण प्रातः प्रतिक्रमणे प्रथममुखवस्त्रिकाप्रत्युपेक्षणादारभ्यामुं कायोत्सर्ग यावदित्यर्थः । किं विषयमतिचारं चिन्तयेदित्याह - ज्ञाने चेत्यादि ॥ ४० ॥ मूलम् - पारिअ काउस्सग्गो, वंदित्ताण तओ गुरुं । देसिअं तु अईआरं, आलोइज जहक्कमं ॥ ४१ ॥ व्याख्या - पारितकायोत्सर्गो वन्दित्वा द्वादशावर्त्तवन्दनेन तत इत्यतिचारचिन्तनानन्तरं गुरुं । दैवसिकं, तुः पूत, अतिचारमालोचयेत् प्रकाशयेत् यथाक्रमम् ॥ ४१ ॥
मूलम् - पडिक्कमित्त निस्सलो, वंदित्ताण तओ गुरुं । काउस्सग्गं तओ कुज्जा, सवदुक्खविमोक्खणं ४२ व्याख्या - प्रतिक्रम्यापराधस्थानेभ्यो निवर्त्य निःशल्यो मायाशल्यादिरहितः 'वंदित्ताणन्ति' सूचकत्वात्सूत्रस्य वन्दनकपूर्व क्षमयित्वा वन्दित्वा च गुरुवन्दनेन ततो गुरुं, कायोत्सर्ग चारित्रदर्शनज्ञानशुद्धिनिमित्तं व्युत्सर्गत्रयरूपं, जातावेकचनम् ॥ ४२ ॥
षड्विंशमध्ययनम्.
(२६)
गा ४०-४२
॥४८७॥