________________
षड्विंश.
मध्ययनम् गा३६-३९
मलम-अवसेसं भंडगं गिज्झा, चक्खुसा पडिलेहए । परमद्धजोअणाओ, विहारं विहरए मुणी ॥ ३६ ॥ व्याख्या-अपगतशेषमपशेष समग्रमित्यर्थः, भाण्डकमुपकरणं गृहीत्वा चक्षुषा प्रत्युपेक्ष्येति शेषः, ततः प्रतिले- खयेत्। तचादाय परमुत्कृष्टं अर्द्धयोजनादड़योजनमाश्रित्य, परतो हि मार्गातीतमशनादि स्यात् , विहरत्यस्मिन्प्रदेशे इति विहारः क्षेत्रं, तं विहरेन्मुनिः ॥३६॥ इत्थं विहृत्योपाश्रयं चागत्य गुर्वालोचनादिपूर्व भोजनादि कृत्वा यत्कुर्यात्तदाहमूलम्-चउत्थीए पोरिसीए, निक्खवित्ताण भायणं। सज्झायं च तओ कुज्जा, सवभावविभावणं॥३७॥
व्याख्या-चतुर्थ्यां पौरुष्यां निक्षिप्य प्रत्युपेक्षणापूर्व बद्धा भाजनं पात्रं, उपलक्षणत्वादुपधिं च प्रतिलिख्य, खाध्यायं ततः कुर्यात् , सर्वभावा जीवादयस्तेषां विभावनं प्रकाशकम् ॥ ३७॥ मूलम्-पोरिसीए चउब्भाए, वंदित्ताण तओ गुरुं। पडिक्कमित्ता कालस्स, सिजं तु पडिलेहए ॥३८॥
व्याख्या-पौरुष्याः प्रक्रमाचतुर्थ्याश्चतुर्भागे शेषे इति शेषः, 'सिजंति' शय्यां वसतिम् ॥ ३८ ॥ मूलम्-पासवणुच्चारभूमि च, पडिलेहिज जयं जई। काउस्सग्गं तओ कुज्जा, सवदुक्खविमोक्खणं॥३९॥ ___ व्याख्या-'पासवणुचारभूमिं चत्ति' प्रश्रवणभूमिमुच्चारभूमिं च प्रत्येकं द्वादशस्थण्डिलात्मिका, चशब्दात्कालभूमि ४||च स्थण्डिलत्रयरूपां प्रतिलेखयेत् , यतमारम्भादुपरतं यथा स्यात्तथा यतिरिति सार्द्धसप्तदशसूत्रार्थः । इत्थं विशे