________________
१२
व्याख्या - स्पष्टं नवरमौत्सर्गिकमेवेदं तृतीयपौरुषी भक्तपानगवेषणं, अन्यथा हि स्थविरकल्पिकानां यथाकालमेव भक्तादिगवेषणं । यदाहुः - "सइ काले चरे भिक्खू, कुज्जा पुरिसकारिअं ॥ अलाभुत्ति न सोइज्जा, तवुत्ति अहि-आसए १ त्ति" । छण्ह मित्यादि - पण्णामन्यतरस्मिन् कारणे समुपस्थिते, न तु कारणं विनेति भावः ॥ ३२ ॥ | कारणषङ्कमेवाह-
मूलम् - वेअण- त्रेआवच्चे, इरिअट्ठाए अ संजमट्ठाए । तह पाणवत्तिआए, छट्टं पुण धम्मचिंताए ॥३३॥
व्याख्या- 'वेअणत्ति' वेदनाशब्दस्योपलक्षणत्वात् क्षुत्पिपासावेदनाच्छेदनार्थं १ । 'वेआवच्चेत्ति' क्षुधादिवाधितो वैयावृत्त्यं कर्त्तुं क्षमो न स्यादिति वैयावृत्त्याय २ । तथा ईर्यासमितिः सेवार्थस्तस्मै, चः समुच्चये, क्षुत्तृषाकुलस्य हि चक्षुर्थ्यामपश्यतोऽसौ दुष्करेति ३ । तथा संयमार्थाय संयमपालनं च यथा स्यादिति, आहारादिकमन्तरा हि कच्छमहाकच्छादीनामिव संयमो दुरनुपालः स्यादिति ४ । तथा प्राणप्रत्ययं प्राणत्राणहेतवे, अविधिना ह्यात्मनोऽपि प्राणोप्रक्रमे हिंसा स्यात् ५ । षष्ठं पुनरिदं कारणं यदुत धर्मचिन्तायै धर्म्मध्याननिमित्तं, क्षुत्तृषाक्षामस्य हि दुर्ध्यानोपगतस्य क्व धर्मचिन्तेति तदर्थं भक्तपानं गवेषयेदिति सर्वत्रानुवर्त्यते ॥ ३३ ॥ अथ यैः कारणैर्भक्तादिग्रहणं न कुर्यात्तानि निर्देष्टुमाह-
षड्विंशमध्ययनम्. गा ३३