________________
RECENT
मुपगच्छतीति गणनोपगं यथा भवत्येवं प्रक्रमात्प्रस्फोटनादि कुर्यात्सोऽपि दोषः । सर्वत्र पूर्वसूत्रादनुवर्त्य वर्जन-11 षड्विंशक्रिया योज्या । एवं चानन्तरोक्तदोपर्युक्ता सदोषा प्रतिलेखना तैर्वियुक्ता तु निर्दोषेत्यर्थादुक्तम् ॥ २७॥ साम्प्रतं
मध्ययनम्,
गा२८-२९ त्वेनामेव भङ्गकदर्शनद्वारेण साक्षात्सदोषां निर्दोषां च किञ्चिद्विशेषतो वक्तुमाहमूलम्-अणूणाइरित्तपडिलेहा, अविवच्चासा तहेव य । पढमं पयं पसत्थं, सेसाणि उ अप्पसत्थाणि॥२८॥ ___ व्याख्या-ऊना चासावतिरिक्ता च ऊनातिरिक्ता, न तथा अनूनातिरिक्ता, । इह च न्यूनताधिक्ये प्रस्फोटना प्रमार्जने, वेलां चाश्रित्य वक्तव्ये । 'अविवचासत्ति' अव्यत्यासा पुरुषोपधिविपर्यासरहिता, कार्येति शेषः। अत्र त्रिभिर्विशेषणपदैरष्टौ भङ्गाः सूचितास्तेषु च कः शुद्धः को वाऽशुद्धः? इत्याह-प्रथमं पदं आद्यभङ्गकरूपमिहैवोपदर्शितं प्रशस्तं, शेषाणि तु सप्ताऽप्रशस्तानि ॥ २८ ॥ निर्दोपामप्येनां कुर्वता यत्त्याज्यं तत्काक्कोपदेष्टुमाह- मूलम्-पडिलेहणं कुणंतो, मिहो कहं कुणइ जणवय-कहं वा ।
देइ व पच्चक्खाणं, वाएइ सयं पडिच्छइ वा ॥ २९॥ १ गुर्वादे रत्नाधिकस्य चोपधि यथाक्रमं न प्रतिलेखयति, प्रातः सायं च रजोहरणादिकमुपधि वा यथोक्तस्थाने न प्रतिलेखयति, इत्येवं पुरुषव्यत्यय उपधिव्यत्ययश्च । * स्थापना-555-155-515-115-551-151-51-1 एवमष्ट भनाः ॥