________________
१२
पूर्वाः । नव खोटकाः, प्रस्फोटनरूपाः कर्त्तव्या इति शेषः । पाणौ हस्ते प्राणिनां कुन्ध्वादीनां विशोधनं प्राणिविशोधनं, पाठान्तरे च प्राणिप्रमार्जनं प्रस्फोटनत्रिकत्रिकोत्तरकालं त्रिकत्रिकसंख्यं कर्त्तव्यम् ॥ २५ ॥ प्रतिलेखनादोषत्यागार्थमाह-
| मूलम् - आरभडा सम्मद्दा, वज्जेअव्वा य मोसली तइआ । पप्फोडणा चउत्थी, विक्खित्ता वेइआ छट्टा २६ व्याख्या--' आरभडा' विपरीतकरणं, त्वरितमन्यान्यवस्त्रग्रहणरूपा वा । यदुक्तं - "वितहकरणमारभडा, तुरिअं वा अन्नमन्नगहणेणंति” । संमर्द्दनं संमर्दा, रूढित्वात् स्त्रीलिङ्गता, संमर्दा नाम वस्त्रान्तकोणसंवलनं, उपधेर्वा उपरि उपवेशनं वर्जयितव्येति सर्वत्र योज्यं । चः पूत, 'मोसलित्ति' तिर्यगूर्द्धमधो वा घट्टना, तृतीया । प्रस्फोटना प्रकर्षेण रेणुगुण्ठितस्येव वस्त्रस्य स्फोटना चतुर्थी । विक्षेपणं विक्षिप्ता पञ्चमी, स्त्रीत्वं प्राग्वत्, सा च प्रत्युपेक्षितवस्त्रस्याप्रत्युपेक्षिते प्रक्षेपणं, प्रत्युपेक्ष्यमाणो वा वस्त्राञ्चलं यदूर्ध्वं क्षिपति । वेदिका पष्ठी, सा च पञ्चविधा । यदाहु: - " वेइआ पंचविहा पणत्ता, तंजहा - उडवेइआ १ अहोवेइआ २ तिरिअवेइआ ३ दुहओ वेइआ ४ एगओ वेइआ ५ । तत्थ उडवेइआ उवरि जाणुगाणं हत्थे काऊण पडिलेहेइ १ । अहोवेइआ अहो जाणुगाणं हत्थे काऊण पडिलेहेइ २ । तिरिभवेइआ संडासयाणं मज्झे हत्थे नेऊण पडिलेहेइ ३ । उभओ वेइआ बाहाणं अंतरे दोवि
१ वस्त्रान्तकोणानां परस्परमेलनमिति दीपिकायाम् ॥
पड़िशमध्ययनम्. गा २६