________________
पशि . मध्ययनम. गा२१-२३
=3672829640X
रात्रिसमापके नक्षत्रे रात्रेः प्रथमाद्याः प्रहरा इति सामर्थ्यादुक्तं भवतीति सूत्रचतुष्कार्थः ॥ २०॥ इत्थं सामान्येन दिननिशाकृत्यमुपदर्य पुनर्विशेषात्तदेव दर्शयन्नादौ दिनकृत्यं सार्द्धसप्तदशसूत्रैराहमूलम्-पुबिल्लंमि चउब्भागे, पडिलेहित्ताण भंडगं। गुरुं वंदित्तु सज्झायं, कुज्जा दुक्खविमोक्खणं॥२१॥ | व्याख्या--पूर्वस्मिंश्चतुर्भागे प्रथमपौरुषीलक्षणे प्रक्रमादिनस्य खाध्यायं कुर्यादितियोगः, किं कृत्वेत्याह-प्रत्युसापेक्ष्य भाण्डकं वर्षाकल्पादिकमुपधिं सूर्योदयसमये इति शेषः ॥ २१॥ मूलम्-पोरिसीए चउब्भागे, वंदित्ताण तओगुरूं। अपडिक्कमित्ता कालस्स, भायणं पडिलेहए ॥ २२ ॥
व्याख्या--पौरुष्याश्चतुर्भागे अवशिष्यमाण इति शेषः, ततः पादोनपौरुष्यामित्यर्थः । अप्रतिक्रम्य कालस्य, चतुर्थपौरुष्यामपि खाध्यायस्य विधास्यमानत्वात् , कालप्रतिक्रमणं च खाध्यायसमाप्तौ स्यादित्यप्रतिक्रम्येत्युक्तम् ॥ २२ ॥ प्रतिलेखनाविधिमाह-- मूलम्-मुहपोत्तिअंपडिलेहिता, पडिलेहिज्ज गोच्छगं। गोच्छगलइअंगुलिओ, वत्थाई पडिलेहए ॥२३॥
___ व्याख्या-मुखवस्त्रिका प्रतिलिख्य प्रतिलेखयेत् 'गोच्छगं' पात्रकोपरिवर्त्ति उपकरणं, ततश्च 'गोच्छगलइ अंगु१२ लिओत्ति' प्राकृतत्वादङ्गुलिभिातो गृहितो गोच्छको येन सोऽङ्गुलिलातगोच्छकः, वस्त्राणि पटलकरूपाणि प्रति
लेखयेत् प्रस्तावात्प्रमार्जयेदित्यर्थः ॥ २३ ॥ इत्थं तथास्थितान्येव पटलानि गोच्छकेन प्रमृज्य पुनर्यकुर्यात्तदाह
RAKASHANCHAL
=*