________________
उत्तराध्ययन 11820 11
१५
१८
२१
२४
मूलम् - अब्भुट्टाणं गुरुपूआ, अच्छणे उवसंपया । एवं दुपंच संजुत्ता, सामायारी पवेइआ ॥ ७ ॥
व्याख्या - अभीत्याभिमुख्येनोत्थानं अभ्युत्थानं उद्यमः 'गुरुपूअत्ति' आर्पत्वाद्गुरुपूजायां गौरवार्हाणामाचार्यग्लानादीनां यथोचिताहारादिसम्पादनरूपायां । इह च सामान्याभिधानेपि अभ्युत्थानं निमन्त्रणारूपमेव ग्राह्यं, अत एव निर्युक्तिकृता अस्य स्थाने निमन्त्रणैवोक्ता “छंदणा य निमंतणत्ति" । तथा 'अच्छणेत्ति' अवस्थाने प्रक्रमादपराचार्यादेः समीपे, उपसम्पदियन्तं कालं युष्मत्पार्थे मया वसितव्यमित्येवंरूपा, कार्येति सर्वत्रापि शेषः । एवमुक्तनीत्या 'दुपंच संजुत्तत्ति' द्विपञ्चकसंयुक्ता दशसंख्यायुता सामाचारी प्रवेदिता कथितेति सूत्रत्रयार्थः ॥ एवं दशविधां सामाचारीमुदीर्यौघ सामाचारीमाह
मूलम् - पुविलंमि चउब्भागे, आइचंमि समुट्ठिए । भंडगं पडिले हित्ता, वंदिता य तओ गुरुं ॥ ८ ॥ पुच्छिना पंजलीउडो, किं काय मए इह । इच्छं निओइउं भंते, वेआवच्चे व सज्झाए ॥ ९ ॥ व्याख्या - पुर्वस्मिंश्चतुर्भागे नभस इति शेषः, आदित्ये समुत्थिते समुद्गते प्राप्त इत्यर्थः । अत्र हि किञ्चिदूनोऽपि चतुर्भागश्चतुर्भाग उक्तस्ततोऽयमर्थः । बुद्ध्या नभश्चतुर्द्धा विभज्यते, तत्र पुर्वदिक्सम्बद्धकिञ्चिदूननभश्चतुर्भागे यदाऽऽदित्यः समेति तदा, पादोनपौरुप्यामित्यर्थः । भाण्डमेव भाण्डकं पतग्रहाद्युपकरणं प्रतिलिख्य वन्दित्वा च
षड्विंशमध्ययनम्. (२६)
गा ७-९
॥४८० ॥