SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ १२ व्याख्या—गमने तथाविधहेतुना बहिर्निस्सरणे, आवश्यकेषु अवश्यकर्त्तव्यव्यापारेषु भवा आवश्यकी तां कुर्यात् । स्थाने उपाश्रयादौ प्रविशन्निति शेषः कुर्यान्नैषेधिकीं गमनादिनिषेधरूपां । आप्रच्छना इदमहं कुर्या न वैत्यादिरूपां, स्वयमात्मनः करणं कस्यापि कार्यस्य निर्वर्त्तनं स्वयं करणं तस्मिन्कार्येति शेषः । तथा परकरणेऽन्य| कार्यविधाने प्रतिप्रच्छना, गुरुनियुक्तोऽपि हि पुनः प्रवृत्तिकाले पृच्छत्येव गुरुं । इह च स्वकृत्य परकृत्ययोरुपलक्षण| त्वात्सामान्येन खपरखम्बन्धिषु सर्वकार्येष्वपि प्रथमतो गुरूणां प्रच्छनमापृच्छा, गुरुनियुक्तेनापि प्रवृत्तिकाले भूयस्तत्प्रच्छनं प्रतिपृच्छेति ज्ञेयं । आह च निर्युक्तिकृत् - " आपुच्छणा उ कज्जे पुवनिउत्तेण होइ पडिपुच्छत्ति " ॥ ५ ॥ मूलम् — छंदणा दबजाएणं, इच्छाकारो अ सारणे । मिच्छाकारोअ निंदाए, तहक्कारो पडिस्सुए ॥ ६ ॥ व्याख्या - छन्दना शेषमुनिनिमन्त्रणा द्रव्यजातेन द्रव्यविशेषेण पूर्वगृहीतेनेति गम्यते, उक्तं च "पुवगहिएण छंदणत्ति" । इच्छया खाभिप्रायेण न तु बलात्कारेण करणं तत्तत्कार्यनिर्वर्त्तनमिच्छाकारः, सारणे आत्मनः परस्य वा कृत्यं प्रति प्रवर्त्तने । तत्रात्मसारणे यथा 'इच्छाकारेण युष्मचिकीर्षितमिदं कार्य करोमीति, अन्यसारणे च यथा 'मम पात्रलेपादिकार्यमिच्छाकारेण कुरुतेति' । मिथ्याकरणं मिथ्या इदमिति प्रतिपत्तिर्मिध्याकारः, स चात्मनो निन्दायां । वितथाचरणे धिगिदं मिथ्या मया कृतमित्यादिरूपायां । तथाकार इदमित्थमेवेत्यभ्युपगमः, प्रतिश्रुते प्रतिश्रवणे गुरौ वाचनादिकं प्रयच्छत्येवमेवेदमित्यङ्गीकाररूपे ॥ ६ ॥ षड्विंशमध्ययनम्. गा ६
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy