________________
उत्तराध्ययन ॥४७९ ॥
१२
१५
१८
२१
अभूट्टानं नवमं ९, दसमा उवसंपया १० ॥
एसा दसंगा साहूणं, सामायारी पवेइआ ॥ ४ ॥
व्याख्या - व्रतादारभ्य विना कारणं गुरोरवग्रहे न स्थेयमाशातनाशङ्कातः, किन्तु ततो निर्गन्तव्यं, न चावश्यक विना निर्गमनमिति प्रथमाऽऽवश्यकी ॥ १ ॥ निर्गत्य चावस्थानस्थाने नैषेधिकी गमनादिनिषेधरूपा कार्येति तदनु नैषेधिकी ॥ २ ॥ तत्र च तिष्ठता भिक्षाटनादिकार्योत्पत्तौ गुरूनापृच्छयैव प्रवर्त्तितव्यमिति तदनन्तरमाऽऽप्रच्छना ॥ ३ ॥ तस्यां च कृतायां गुरुनियुक्तेनाऽपि प्रवृत्तिकाले पुनः प्रष्टव्या एव गुरवः इति तत्पृष्ठतः | प्रतिप्रच्छना ॥ ४ ॥ कृत्वा च भिक्षाटनं नात्मम्भरिणा भाव्यं, किन्तु शेषमुनीनां निमन्त्रणारूपा छन्दना कार्येति | तदनु छन्दना ॥ ५ ॥ तत्रापि इच्छाकार एव प्रयोक्तव्य इति तदनु सः ॥ ६ ॥ इत्थं क्रियमाणेऽपि कथञ्चिदतिचारसम्भवे मिथ्यादुष्कृतं कार्यमिति तदनु मिथ्याकारम् ॥ ७ ॥ महति चापराधे गुरोरालोचिते गुरुवचनं तथेति स्वीकार्यमिति तत्पृष्ठतस्तथाकारः ॥ ८ ॥ तथेति स्वीकृत्य च सर्वकृत्येषूद्यमः कार्य इति तदनु अभ्युत्थानम् ॥ ९॥ उद्यमवता च ज्ञानाद्यर्थ गणान्तरेऽपि गत्वोपसम्पद्ब्राह्मेति तदनु उपसम्पदुक्तेति सूत्रत्रयार्थः ॥ ४ ॥ एनामेव विषयविभागेनोपदर्शयितुमाह
मूलम् —गमणे आवस्सिअं कुज्जा, ठाणे कुज्जा णिसीहिअं । आपुच्छणा सयं करणे, परकरणे पडिपुच्छणा
षड्रिंशमध्ययनम्.
(२६)
गा ४-५
॥४७९ ॥