SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥४७६ ॥ १५ १८ २१ २४ कर्मबलवर्द्धकत्वादिति भावः । ततो नानयोर्योगात् ब्राह्मणः स्यात्किन्तु पूर्वोक्तगुणयुक्त एवेति तत्त्वम् ॥ २९ ॥ अन्यच्च | मूलम् नवि मुंडिएण समणो, न ॐकारेण बंभणो । नमुणी रण्णवासेणं, कुसचीरेण न तावसो ॥३०॥ व्याख्या—न नैव, अपिः पूत, मुण्डितेन श्रमणो निर्ग्रन्थो भवतीति शेषः । न 'ॐकारेणत्ति' ॐ भूर्भुवःखरित्यादिना ब्राह्मणः, न मुनिररण्यवासेन, कुशो दर्भविशेषस्तन्मयं चीरं कुशचीरं वल्कलोपलक्षणमिदं तेन न तापसः ॥ ३० ॥ तर्हि कथमेते भवन्तीत्याह मूलम् - समयाए समणो होइ, बंभचेरेण बंभणो । नाणेण य मुणी होइ, तवेणं होइ तावसो ॥ ३१ ॥ व्याख्या - [ स्पष्टा ] तथा ॥ ३१ ॥ मूलम् - कम्मुणा वंभणो होइ, कम्मुणा होइ खत्तिओ । कम्मुणा वइसो होइ, सुद्दो हवइ कम्मुणा ॥ ३२ ॥ व्याख्या - कर्मणा क्रियया ब्राह्मणो भवति, यदुक्तं - “क्षमा दानं दमो ध्यानं, सत्यं शौचं धृतिर्घृणा । ज्ञानं विज्ञानमास्तिक्यमेतद्ब्राह्मणलक्षणम् ॥ १ ॥” तथा कर्मणा क्षतत्राणलक्षणेन भवति क्षत्रियः, वैश्यः कर्मणा कृषिपाशु| पाल्यादिना भवति, शुद्रो भवति कर्मणा शोचनहेतुप्रैषादिसम्पादनरूपेण । कर्मनानात्वाभावे हि ब्राह्मणादिव्यपदेशानामभाव एवेति । ब्राह्मणावसरे च यच्छेषाभिधानं तद्याप्तिदर्शनार्थम् ॥ ३२ ॥ किमिदं खबुद्ध्यैवोच्यत इत्याह १ “ ॐ भूर्भुवःखस्तत् सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो यो नः प्रचोदयात् " ॥ पञ्चविंशमध्ययनम्. (२५) गा ३०-३२ ||४७६ ॥
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy