________________
उत्तराध्ययन
॥४७१ ॥
१५
परितापकरो मुष्ट्याद्यभिघातः, आरम्भः प्राणिवधात्मकस्तेषु प्रवर्त्तमानं कायं निवर्त्तयेदिति सूत्रषट्कार्थः ॥ २५ ॥ अथ समितिगुप्त्योर्मिथो विशेषमाह-
| मूलम् - एआओ पंच समिईओ, चरणस्स य पवत्तणे । गुत्ती निअत्तणे वुत्ता, असुभत्थेसु सबसो ॥ २६ ॥
व्याख्या -- एताः पञ्च समितयश्चरणं चारित्रं सच्चेष्टेत्यर्थः तस्य प्रवर्त्तने प्राच्यचशब्दस्य एवार्थस्येह योगात्प्रवर्त्तन एव उक्ता इति योगः, सच्चेष्टासु प्रवृत्तावेव समितयो व्याप्रियन्त इति भावः । ' गुत्तित्ति' गुप्तयो निवर्त्तनेप्युक्ताः, 'असुभत्थेसुत्ति' अशुभमनोयोगादिभ्यः 'सबसोत्ति' सर्वेभ्यः, अपिशब्दाचरणप्रवर्त्तनेपीति सूत्रार्थः ॥ २६ ॥ अध्ययनार्थ|मुपसंहरन्नेतदाचरणे फलमाह -
मूलम् -- एआओ पवयणमायाओ, जे सम्मं आयरे मुणी से खीप्पं सबसंसारा, विप्पमुच्चइ पंडि एत्ति बेमि व्याख्या – 'आयरेत्ति' आचरेत् सेवेतेति सूत्रार्थः ॥ २७ ॥ इति ब्रवीमीति प्राग्वत् ॥
EXXXXXXXXXXXXXXXXXXXXXX
YouDIY
इति श्रीतपागच्छीय महोपाध्याय श्रीविमलहर्षगणिमहोपाध्याय श्रीमुनिविमलगणिशिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ चतुर्विंशमध्ययनं सम्पूर्णम् ॥ २४ ॥
*••••XX--X----------
चतुर्विंश
मध्ययनम्. (२४)
गा २६-२७
1180211