SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ ॥ अथ पञ्चविंशमध्ययनम् ॥ पञ्चविंशमध्ययनम्. जयघोषर्षिकथालेशः ॥ ॐ ॥ उक्तं चतुर्विंशमध्ययनमथ यज्ञीयाख्यं पञ्चविंशमारभ्यते । अस्य चायं सम्बन्धोऽनन्तराध्ययने प्रवचनमातर उक्तास्ताश्च ब्रह्मगुणस्थितस्यैव तत्त्वतो भवन्तीति जयघोपविजयघोषचरितवर्णनद्वारा ब्रह्मगुणा इहोच्यन्ते, इति सम्बन्धस्यास्य प्रस्तावनार्थ जयघोषकथालेशो लिख्यते । तथा हि| वाराणस्यामभूतां द्वौ, द्विजौ युग्मजसोदरौ॥ काश्यपी जयघोषाख्य-विजयघोषसंज्ञकौ ॥१॥ जयघोषोऽन्यदा सातुं, गतो गङ्गां व्यलोकत ॥ सर्पमेकं मुखोपात्त-रटन्मण्डूकभक्षकम् ॥ २ ॥ गृहीत्वा स भुजङ्गोऽपि, क्षणात्कु-| ररपक्षिणा ॥ उत्क्षिप्याधिक्षिति क्षिप्तः, प्रारेमे भक्षितुं द्रुतम् ॥३॥ तेन सन्दंशदेशीय-त्रोटित्रोटितविग्रहम् ॥ भक्ष्यमाणोऽप्यहिसेकं, रटन्तं तं जघास सः॥४॥ तं च प्रेक्ष्य मिथोग्रासं, जयघोषो व्यचिन्तयत् ॥ अहो ! भवस्य काप्येषा, स्थितिरस्थितसुस्थता ॥५॥ यो हि यस्मै प्रभवति, असते तं स मीनवत् ॥ न तु गोपायति खीयशक्तिं कोऽपि नदीनवत् ॥६॥ कृतान्तस्तु महाशक्ति-रिति स असतेऽखिलम् ॥ तदसारेऽत्र संसारे, का नामास्था १ स तं असति मीनवत् । इति "घ" पुस्तके ॥ २ रिति सर्व प्रसत्यहो । इति "ध" पुस्तके ॥ SHRESSSSS
SR No.600346
Book TitleSavruttikam Uttaradhyayan Sutram Part 02
Original Sutra AuthorN/A
AuthorUnkonwn
PublisherZZZ Unknown
Publication Year
Total Pages596
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy