________________
उत्तराध्ययन ॥४७०॥
%40SAXEXAGONAISHI
तत्रान्त्यो दशपदनिष्पन्नो भङ्गको मुख्यवृत्या शुद्ध इतीदृशे स्थण्डिले उच्चारादीनि व्युत्सृजेत् परिष्ठापयेत्। पुनरुचारादि || चतुर्विंशकथनं विस्मरणशीलानुग्रहार्थमिति सूत्रचतुष्कार्थः ॥१७॥१८॥ अथोक्तार्थोपसंहारपूर्व वक्ष्यमाणार्थसम्बन्धार्थमाह- मध्ययनम्. मूलम्-एआओ पञ्च समिईओ, समासेण विआहिआ।इत्तो य तओ गुत्ती, वोच्छामि अणुपुत्वसो १९/8 (२४),
गा१९-२१ व्याख्या--'विआहिअत्ति' व्याख्याताः 'इत्तो अत्ति' इतश्च 'तओत्ति तिस्रः 'अणुपुत्वसोत्ति' आनुपयेति सूत्रार्थः ॥ १९ ॥ तत्राद्यामाहमूलम्-सच्चा तहेव मोसा य, सच्चामोसा तहेव य । चउत्थी अर्सच्चमोसा अ, मणगुत्ती चउबिहा ॥२०॥
व्याख्या-सत्पदार्थचिन्तनरूपो मनोयोगः सत्यः, तद्विषया मनोगुसिरप्युपचारात् सत्या । एवमन्या अपि ॥२०॥ अस्या एव खरूपं निरूपयन्नुपदेष्टुमाहमूलम्-संरंभसमारंभे, आरंभमि तहेव य । मणं पवत्तमाणं तु, निअत्तिज जयं जई ॥ २१ ॥ | व्याख्या-संरम्भः सङ्कल्पः, स च मानसस्तथाऽहं ध्यास्यामि यथाऽसौ मरिष्यतीत्येवंविधः। समारम्भः परपीडाकरोच्चाटनादिनिमित्तं ध्यानं, अनयोः समाहारस्तस्मिन् । आरम्भे परमारणक्षमाशुभध्यानरूपे, चः समुच्चये, तथैव ६ तेनैवागमोक्तप्रकारेण मनः प्रवर्त्तमानं, तुर्विशेषणे, निवर्तयेत् यतमानो यतिः । विशेषश्चायं-शुभसङ्कल्पेषु मनः प्रवर्तयेदिति ॥ २१ ॥ वाग्गुप्तिमाह
॥४७०॥