________________
उत्तराध्ययन 'दुहओवित्ति' द्वावपि प्रक्रमादौघिकौपग्रहिकोपधी, समित उपयुक्तः सदेति सूत्रद्वयार्थः ॥ १४ ॥ परिष्ठाप
॥४६९॥
नासमितिमाह
१५
१८
२१
२४
चतुर्विंश
मध्ययनम्. (२४)
मूलम् — उच्चारं पासवणं, खेलं सिंघाण जल्लिअं । आहारं उवहिं देहं, अन्नं वावि तहाविहं ॥ १५ ॥ हूं गा १५-१६
व्याख्या -- उच्चारं पुरीषं, प्रश्रवणं मूत्रं, खेलं मुखश्लेष्माणं, सिङ्घाणं नासिकाश्लेष्माणं, 'जल्लिअंति' जलं मलं, आहारमुपधिं देहं अन्यद्वा कारणगृहीतं गोमयादि, अपिः पूत्त, तथाविधं परिष्ठापनार्ह स्थण्डिले व्युत्सृजेदित्युत्तरेण योगः ॥ १५ ॥ स्थण्डिलं च दशविशेषणपद विशिष्टमिति तद्गताखिलभङ्गोपलक्षणार्थमाद्यविशेषणपदस्थशब्दद्वयस्य
भङ्गकरचनामाह-
मूलम् - अणावायमसंलोए, अणावाए चेव होइ संलोए । आवायमसंलोए, आवाए चेव संलोए ॥ १६ ॥
व्याख्या - न विद्यते आपातः खपरोभयपक्षसमीपागमनरूपो यत्र तदनापातं स्थण्डिलमिति गम्यं, 'असंलो एत्ति' नास्ति संलोको दूरस्यापि स्वपक्षादेरालोको यत्र तत्तथेत्येको भङ्गः ॥ १ ॥ अनापातं चैव भवति संलोकं, यत्रापातो नास्ति संलोकश्चास्तीति द्वितीयो भङ्गः ॥ २ ॥ आपातमसंलोकं, यत्रापातोऽस्ति न तु संलोक इति तृतीयः ॥ ३ ॥
॥४६९॥